________________
वीक्ष्यन्ते इत्यचाक्षुषं विश्रसाकरणम्, अभ्रादिकरणानि तु खयं निष्पद्यन्ते चक्षुषा च वीक्ष्यन्त इति चाक्षुषं विश्र - साकरणम्, अत्र च पश्चादुद्दिष्टस्यापि यदचाक्षुषस्य प्रथममभिधानं तत्प्राग्वत्पश्चानुपूर्व्येति गाथार्थः ॥ १८७ ॥ सम्प्रति प्रयोगकरणमाह
दुविहं ओगकरणं जीवेतर मूल उत्तरं जीवे । मूले पंचसरीरा तिसु अंगोवंगणामं च ॥ १८८ ॥ व्याख्या- 'द्विविधं ' द्विभेदं - प्रयोगकरणं 'जीवत्ति' जीवप्रयोगकरणम् 'इयरे'त्ति अजीवप्रयोगकरणं, तत्र जीवेन| उपयोगलक्षणेन यदौदारिकादिशरीरमभिनिर्वर्त्यते तज्जीवप्रयोगकरणं, तच्च द्विधा - मूलकरणमुत्तरकरणं च तत्र 'मूल' | इति मूलकरणे विचार्यमाणे 'पञ्च' इति पञ्चसङ्ख्यावच्छिन्नानि विशीर्यन्ते - उत्पत्तिसमयतः प्रभृति पुद्गलविचटनाद्विनश्य| न्तीति शरीराणि - औदारिकवैक्रियाहार कतै जसकार्म्मणानि, इह च विषयविषयिणोरभेदोपचारेण करणविषयत्वाच्छरीराण्यपि करणमुक्तं, मूलत्वं चोत्तरोत्तरावयवव्यक्त्यपेक्षया, ततश्च यदवयवविभागविरहित मौदारिकैशरीराणां प्रथममभिनिर्वर्त्तनं तत् मूलकरणं, 'तिसु अंगोवंगणामं चे'ति, चशब्दः प्रकृतमनुकर्षति, तच्चेह प्रक्रमादुत्तरकरणमेवानु कृष्यते, | ततश्च त्रिषु - औदारिकवैक्रियाहारेषु तैजसकार्म्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवोत्तरकरणमिति सम्बन्धः, अत्र चाङ्गो| पाङ्गनामशब्दे नाङ्गोपाङ्गनामकर्म्मनिर्वर्त्तितान्यङ्गोपाङ्गानि गृह्यन्ते, कार्ये कारणोपचारात्, आह च भाष्यकृत् - "सज्जीवं १ सजीवं मूलोत्तरकरणं मूलकरणं यदादौ । पञ्चानां देहानामुत्तरमादित्रिकस्यैव ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org