SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१९६॥ | खंधेसु अ दुपए साइएस अब्भेसु अब्भरुक्खेसुं । णिष्फण्णगाणि दव्वाणि जाणि तं वीससाकरणं ॥ १८७॥ व्याख्या - 'स्कन्धेषु च ' परमाणुसञ्चयात्मकेषु द्विप्रदेशादिकेषु आदिशब्दात्त्रिप्रदेशादिपरिग्रहः, परमाणवश्चानेनैवोपलक्षिताः, 'अभ्रेषु' प्रतीतेषु 'अभ्रवृक्षेषु' तद्विशेषेष्वेव वृक्षाकारेषु, उपलक्षणं चैतदिन्द्रधनुरादीनां तथा च | सम्प्रदायः - चक्खुप्फासियं जं चक्खुसा दीसइ, तं पुण अब्भा अन्भरुक्खा एवमाइ' । दृश्यते च 'अच्भेसु विजमादीसु'त्ति, तत्र च यदि विद्युत्प्रतीतैव गृह्यते तदा तस्याः सजीवत्वात्तच्छरीरस्य चौदारिकशरीरकरणाख्यप्रयोगकरणत्वप्रसक्तिः, अथ विद्योतन्त इति विद्युन्ति तानि आदिर्येषां तानि विद्युदादीन्यभ्राणि तेष्वित्यभ्रविशेषणतया व्याख्यायते, आदिशब्दाच धूम्रादिपरिग्रह इति, तदा नोक्तदोषः, परमप्रातीतिकं, सामायिक निर्युक्तौ चाभ्रादीन्येव विश्रसाकरणमुक्तं, तद्यथा - "चक्खुसमचक्खुसंपि य सादियं रूविवीससाकरणं । अब्भाणुप्पभितीणं बहुहा संघायभेयकयं ॥ १ ॥ "ति, नेह तत्त्वनिश्चयः, तेषु द्विप्रदेशादिष्वभ्रादिषु वा किमित्याह - निष्पन्नान्येव निष्पन्नकानि, जीवव्यापारं विनैव भेदसङ्घाताभ्यां लब्धसत्ताकानि द्रव्याणि तद्विश्रसाकरणं सादि, चाक्षुषमचाक्षुषं वेति प्रक्रमः, द्विप्र | देशादिकरणानि हि सङ्घाताद् भेदात् सङ्घातभेदाभ्यां च विनाऽपि जीवप्रयोगं निष्पद्यन्ते निष्पन्नान्यपि च न चक्षुषा १ चक्षुः स्पर्श यचक्षुषा दृश्यते, तत्पुनरभ्राणि अभ्रवृक्षा एवमाद्याः । २ चाक्षुषमचाक्षुषमपि च सादिकं रूपविश्रसाकरणम् । अभ्राणुप्रभृतीनां बहुधा संघातभेदकृतम् ॥ १ ॥ Jain Education International For Personal & Private Use Only असंस्कृता. ४ ॥१९६॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy