SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ CCCC459CCCCCCCC माह-सहादिना वर्तते सादिकं ततोऽन्यत्त्वनादिकमिति भेदतो द्विविधं, पुनरिति मूलभेदापेक्षया, विश्रसाकरणम्उक्तरूपमिति गाथार्थः ॥ १८५॥ तत्रानादिकं वक्तुमाहधम्माधम्मागासा एवं तिविहं भवे अणाईयं । चखुअचखुप्फासे एयं दुविहं तु साईयं ॥ १८६ ॥ व्याख्या-धर्माधर्माकाशानामन्योऽन्यसंवलनेन सदाऽवस्थानमनादिकरणं, न हि तत्कदाचिन्नासीन्नास्ति न भविप्यति वा, उक्तं हि-"धम्माधम्मणहाणं अणाइसंहायणाकरणं" न च करणमनादि च विरुद्धमिति वाच्यं, यतोऽत्रान्योऽन्यसमाधानं करणमभिप्रेतं, न त्वन्योऽन्यनिर्वर्तनम् , आह च-“अन्नोऽनसमाहाणं जमिहं करणं ण णिवत्ती", इह | च धर्माधर्माकाशानां करणमिति वक्तव्ये कथञ्चिक्रियाक्रियावतोरभेददर्शनार्थमनुकूलितक्रियत्वख्यापनार्थ वा धर्माधर्माकाशाः करणमित्युक्तम् , 'एतदू' अनन्तरोक्तं 'त्रिविधं' त्रिप्रकारं भवेत्' स्यात् अनादिकं, करणमिति प्रक्रमः। इत्थमनादिकं पश्चानिर्दिष्टमपि पश्चानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनाय उक्तं, सम्प्रति तु सादिकमाह-'चक्खुमचक्खुप्फासे'त्ति स्पर्शशब्दः प्रत्येकमभिसम्बध्यते, ततश्चक्षुषा स्पृश्यते-गृह्यमाणतया युज्यत इति चक्षुःस्पर्श-स्थूलपरिणतिमत्पुद्गलद्रव्यम् अतोऽन्यदचक्षुःस्पर्शम् , 'एयं दुविहं तु'त्ति एतद्विविधमेव, तुशब्दस्यैवकारार्थत्वात् सादिकमिति गाथार्थः ॥ १८६॥ इदमेव द्वितयं व्यक्तीकर्तुमाह १ धर्माधर्मनभसामनादिसंघातनाकरणम् । २ अन्योऽन्यसमाधानं यदिह (तत्) करणं न निर्वृत्तिः ॥ *25ARANA Jain Education Inter n al For Personal & Private Use Only
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy