________________
व्याख्या-विसालिसहिति मागधदेशीयभाषया विसदृशैः-खखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः SI'शीलैः' व्रतपालनात्मकैरनुष्ठानविशेषैः, किम् ?-इज्यन्ते पूज्यन्त इति यक्षाः, यान्ति वा तथाविधर्द्धिसमुदयेऽपि
क्षयमिति यक्षाः, ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः 'उत्तरोत्तरा' उत्तरोत्तरविमानवासिनः, उत्तरो वा उप|रितनस्थानवर्युत्तरः-प्रधानो येषु तेऽमी उत्तरोत्तराः 'महाशुक्ला' अतिशयोज्वलतया चन्द्रादित्यादयः, त इव |'दीप्यमानाः' प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-'मन्यमाना' मनसि अवधारयन्तः शब्दादिवि|पयावासिसमुत्पन्नरतिसागरावगाढतयाऽतिदीर्घस्थितितया वा, किम् ?-न पुनश्चवनम् अपुनश्चयवस्तम्-अधस्तिर्यगादिषूत्पत्त्यभावं, यदुक्तं मन्यमाना अपुनथ्यव'मिति, तत्रोक्तमेव हेतुं सूत्रकृदाह-'अप्पिया' इत्यादिना, 'अर्पिताः प्राकृतसुकृतेन ढौकिता इव, केषाम् ?-काम्यन्ते-अभिलष्यन्ते इति कामा देवानां कामा देवकामाः-दिव्याङ्ग-18 |नागस्पर्शादयः, 'कामरूवविउविणो'त्ति सूत्रत्वात्कामरूपविकरणा-यथेष्टरूपाभिनिवर्तनशक्तिसमन्विताः, कुर्वन्ति ४ हि ते उत्तरवैक्रियाणि समवसरणागमनादिषु तथा तथेति, येऽपि प्रयोजनाभावान्न कुर्वन्ति तेषामपि शक्तिरस्त्ये| वेत्येवमुच्यते, 'ऊर्ध्व' कल्पोपरिवर्तिषु |येयकेष्वनुत्तरविमानकेषु च कल्पेषु सौधादिषु यदि वा-ऊर्ध्वम्-उपरि कल्प्यन्ते विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादयो अवेयकादयश्च सर्वेऽपि कल्पा एव तेषु 'तिष्ठन्ति' आयुःस्थितिमनुपालयन्ति पूर्वाणि-वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि बहूनि, जघन्यतोऽपि पल्यो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org