________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य.
लारणं-मिथ्यात्वाविरत्यादिकं, तथा यशोहेतुत्वाद्यशः-संयमो विनयो वा, यदुक्तम्-"एवं धम्मस्स विणओ, मूलं पर-
|मो से मोक्खो। जेण कित्तिं सुयं सिग्धं, णीस्सेसं चाभिगच्छइ ॥१॥” इति, तत् 'सञ्चिनु' भृशमुपचितं कुरु, बृहद्वृत्तिः
कया ?-क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, ततः किं स्यादित्याह-पाढवं' ति पार्थिवमिव पार्थिवं शीतोष्णादि॥१८६॥ परिषहसहिष्णुतया समदुःखसुखतया च पृथिव्यामिव भवं, पृथिवी हि सर्वसहा, कारणानुरूपं च कार्यमिति भावो,
यदि वा पृथिव्या विकारः पार्थिवः, स चेह शैलः, ततश्च शैलेशीप्राप्त्यपेक्षयातिनिश्चलतया शैलोपमत्वात्परप्रसि
या वा पार्थिव शरीरं' तनुं हित्वा' त्यक्त्वा ऊर्ध्व दिशमिति सम्बन्धः, 'प्रक्रामति' प्रकर्षण गच्छति येन भवानिति उपस्कारो, यद्वा सोपस्कारत्वात् सूत्राणामेवं नीयते-यत एवं कुर्वन् भव्यजन्तुरूर्व दिशं प्रक्रामति ततस्त्वमतिदृढचेता इत्थमित्थं च कुर्वित्युपदिश्यते, प्रक्रामतीति वर्तमानसामीप्ये वर्तमाननिर्देश आसन्नकलावाप्तिसूचक इति सूत्रार्थः ॥ १३॥ इत्थं येषां तद्भव एव मुक्त्यवाप्तिस्तान् प्रत्युक्तं, येषां तु न तथा तान्प्रत्याहविसालिसेहिं सीलेहिं, जक्खा उत्तर उत्तरा। महासुक्का व दिप्पंता, मन्नंता अपुणोच्चयं ॥१४॥(सूत्रम्) अप्पिया देवकामाणं, कामरूवविउविणो । उर्ल्ड कप्पेसु चिटुंति, पुवा वाससया बहू॥ १५॥ (सूत्रम्) १. एवं धर्मस्य विनयो मूलं परमोऽसौ मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःश्रेयसं चाधिगच्छति ॥ १॥
MAHARA
४
॥१८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org