________________
उत्तराध्य.
बृहद्वृत्तिः
॥ १८७ ॥
पमस्थितित्वात्, तत्रापि च तेषामसङ्खयेयानामेव सम्भवात् एवं वर्षशतान्यपि बहूनि पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यमिति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ १४-१५ ॥ तत्किमेषामेतावदेव |फलमित्याशङ्कयाह
तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया । उवेंति माणुस जोणिं, से दसंगेऽभिजायइ ॥ १६॥ (सूत्रम्)
व्याख्या – 'तत्र' तेषूक्तरूपोत्पत्तिस्थानेषु 'स्थित्वा' इत्यासित्वा 'यथास्थानम्' इति यद्यस्य स्खानुष्ठानानुरूपं यदिन्द्रादिपदं तस्मिन् यक्षाः 'आयुः क्षये' खजीवितावसाने 'च्युताः ' भ्रष्टाः 'उवेन्ति' त्ति उपयन्ति मनुषाणामियं मानुषी तां 'योनिम्' उत्पत्तिस्थानं, तत्र च ' से' इति स सावशेषकुशलकर्मा कश्चिजन्तुः दशाङ्गानि भोगोपकरणानि वक्ष्यमाणान्यस्येति दशाङ्गः अभिजायते, एकवचननिर्देशस्तु विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायत इति वैचित्र्यसूचनार्थः, यद्वा 'से' इति सूत्रत्वात् तेषां दशानामङ्गानां समाहारो दशाङ्गी, प्राकृतत्वाच्च पुंसा निर्देशः, 'अभिजायते' उपभोग्यतयाऽऽभिमुख्येनोत्पद्यत इति सूत्रार्थः ॥ १६ ॥ कानि पुनर्दशाज्ञानीत्याहवित्तं वत्थु हिरण्णं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ॥ १७ ॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वण्णवं । अप्पायंके महापन्ने, अभिजाय जसो बले ॥१८॥ (सूत्रम्)
Jain Education International
For Personal & Private Use Only
चतुरङ्गीया ध्ययनम्
३
॥ १८७ ॥
www.jainelibrary.org