SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः उत्तराध्य. द्धारयति ततः स्मृतो धर्मः॥२॥” तस्य-एवमन्वर्थनासो धर्मस्य 'दुर्लभा' दुरापा प्रागुक्तालस्वादिहेतुतः, सच-- 'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥११॥' इत्यादिसुगतादिकल्पितोऽपि स्याद् अतस्तदपोहायाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' ॥१८४॥ अनशनादि द्वादशविधम् ‘क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंसयन्ति' अहिंस्रताम्-अहिंसनशीलताम् , अनेन च प्रथमत्रतमुक्तम् , एतच्च शेषव्रतोपलक्षणम् , एतत्प्रधानत्वात्तेषाम् , एतद्वृत्तितुल्यानि हिं शेषव्रतानि, एवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधस्यापि यतिधर्मस्याभिधानम् , इह , च यद्यपि श्रुतेः शाब्दं प्राधान्यं तथापि तत्त्वतो धर्म एव प्रधानं, तेस्या अपि तदर्थत्वादिति, स एव यच्छब्देन द परामृश्यते, अथवा काका नीयते-'यद्' यस्मात् श्रुत्वा प्रतिपद्यन्ते तपःप्रभृति नाश्रुत्वा सुच्चा जाणति कहाणं, सोचा जाणति पावगं' इत्याद्यागमात् , तत एवमतिमहार्थतया दुरापेयमिति सूत्रार्थः ॥ ८ ॥ श्रुत्यवाप्तावपि श्रद्धादुर्लभतामाहआहच्च सवणं लड़े, सद्धा परमदुल्लहा । सोच्चा णेयाउयं मग्गं, बहवे परिभस्सइ ॥ ९॥ (सूत्रम्). व्याख्या-'आह' इति कदाचित् 'श्रवणम्' प्रक्रमाद्धर्माकर्णनम् , उपलक्षणत्वान्मनुष्यत्वं च लब्ध्वेति, अपि१ श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम् ॥१८४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy