________________
क
शब्दस्य गम्यमानत्वात् लब्ध्वापि-अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद्धर्मविषयव 'परमदुर्लभा' अतिशयदरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-'श्रुत्वा' आकर्ण्य न्यायेन चरति-प्रवर्तते नैयायिकः, न्यायोपपन्न इत्यर्थः, |तं 'मार्गम्' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परि इति सर्वप्रकारं 'भस्सइ'त्ति भ्रश्यन्ति-च्यवन्ते प्रक्रमान्नैयायिकमार्गादेव, यथा जमालिप्रभृतयो, यच्च प्राप्तमप्यपैति तचिन्तामणिवत् परमदुर्लभमेवेति भावः ।
इहैव केचिन्निववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्त(प्यस्ति) इति सूत्रार्थः ॥९॥ एतत्त्रयावाप्तावपि * संयमवीर्यदुर्लभत्वमाह-- सुइं च लटुं सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणाऽवि, णो य णं पडिवज्जइ ॥ १० ॥ (सूत्रम्)
व्याख्या-श्रुतिं चशब्दान्मनुष्यत्वं च 'लद्धति प्राग्वल्लब्ध्वापि, श्रद्धां च वीर्य प्रक्रमात् संयमविषयं, पुनःशब्दस्य विशेषकत्वाद्विशेषेण दुर्लभं, यतः बहवः नैक एव रोचमाना अपि-न केवलं प्राप्तमनुष्यत्वाः शृण्वन्तो वेत्यपिशब्दार्थः, श्रद्दधाना अपि, नो चेति चशब्दस्यैवकारार्थत्वान्नैव 'ण'मिति वाक्यालङ्कारे अथवा 'णो य णन्ति सूत्रत्वानो एतं 'पडिवजति'त्ति तत एव प्रतिपद्यन्ते चारित्रमोहनीयकम्र्मोदयतः, सत्यकिश्रेणिकादिवन्न कर्तुमभ्युपगच्छन्तीति सूत्रार्थः ॥ १०॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह
ब्दान्मनुष्यत्वं च ‘लचति
रोचमाना अपि न केवल
अथवा ‘णो यू णन्ति
CCCASERECR-
सूत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org