________________
कयाइ उत्ति तुशब्दस्यैवकाराण कथं पुनस्तेषां प्रहाणिरित्यास
युद्धिम् क्लिष्टकर्मविगमामि
प्रहाणं तस्यायो-लाभः प्रहाणायः तस्मिन् , यद्वा सूत्रत्वात् प्रहाणौ प्रहान्या वा तद्विबन्धकानन्तानुबन्ध्यादिकर्मसु प्रहीणेषु, कुतश्चिदीश्वरानुग्रहादेस्तदप्राप्तेः, अन्यथा हि तद्वैफल्यापत्तिः, एतेन-'अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् , श्वनं वा खर्गमेव वा ॥१॥' इत्यपास्तं भवति, अर्थ कथं पुनस्तेषां प्रहाणिरित्याह'आनुपूा' क्रमेण न तु झगित्येव, तयापि 'कयाइ उत्ति तुशब्दस्यैवकारार्थत्वात्कदाचिदेव न सर्वदा, 'जीवाः' प्राणिनः 'शुद्धिम् क्लिष्टकमविगमात्मिकाम् अनु-तद्विघातिकर्मापगमस्य पश्चात्प्राप्ताः 'आददते' स्वीकुर्वन्ति मनुष्यतां, पाठान्तरतश्च "जायन्ते मणुस्सयंहसरायति सुव्यत्ययान्मनुष्यतायां, तदैव तन्निवर्तकमनुजगत्यादिकर्मोदयादिति भावः, अनेन मनुजत्वविबन्धककर्मापगमस्य तथाविधकालादिसव्यपेक्षत्वेन दुरापतया मनुषत्वदुर्लभत्वमुक्तमिति सूत्रार्थः ॥ ७॥ कदाचिदेतदवाप्तौ श्रुतिः सुलभैव स्यादत आहमाणुस्सं विग्गहं लड़े, सुती धम्मस्स दुल्लहा । जं सोचा पडिवजंति, तवं खंतिमहिंसयं ॥८॥(सूत्रम्)
व्याख्या-'माणुस्संति सूत्रत्वान्मानुष्यकं मनुष्यसम्बन्धिनं विशेषेण गृह्यते आत्मना कर्मपरतन्त्रेणेति विग्रहस्तं मनुजगत्याधुपलक्षितमौदारिकशरीरं 'लढुं'ति अपेर्गम्यमानत्वात् लब्ध्वापि, 'श्रुतिः' आकर्णनं, कस्य ?-धारयति दुर्गतौ निपततो जीवानिति धर्मः, तथा च वाचकः-"प्रागुलोकबिन्दुसारे सर्वाक्षरसन्निपातपरिपठितः। धृञ् धरणाऽर्थो धातुस्तदर्थयोगाद्भवति धर्मः॥१॥ दुर्गतिभयप्रपाते पतन्तमभयकरदुर्लभत्राणे । सम्यक् चरितो यस्मा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org