________________
उत्तराध्य.
बृहद्वृत्तिः
॥१८३॥
| तामपि भवाभिनन्दिनी प्राणिनामिति, कथमन्यथा न तत्प्रतिघातार्थमुद्यच्छेयुरिति भावः । पाठान्तरं वा - 'सङ्घट्ट | इव खत्तिय'त्ति इवो भिन्नक्रमः, ततः सर्वैः शयनादिभिरर्थः - प्रयोजनमस्येति सर्वार्थः क्षत्रियः, स चार्थाद्धष्टराज्यः तद्वत्, ततो यथाऽसौ न निर्विद्यते, अर्थात्सर्वार्थान् प्रार्थयमानः, तथैतेऽपि प्राणिनः सुखान्यभिलषन्तोऽनिर्विद्यमानाश्च, कर्म्मभिः - ज्ञानावरणीयादिभिः सङ्गाः - सम्बन्धाः कर्मसङ्गास्तैः, यद्वा कर्माणि - उक्तरूपाणि तत्तक्रियाविशेपात्मकानि वा, तथा सज्यन्तेऽमीषु जन्तव इति सङ्गाः - शब्दादयोऽभिष्वङ्गविषयाः, ततश्च कर्माणि च सङ्गाश्च कर्म्मसङ्गाः तैः सम् इति भृशं मूढाः - वैचित्त्यमुपागताः सम्मूढाः, 'दुःखम् ' असातात्मकं जातमेषामिति दुखिताः, कदाचित्तन्मानसमेव स्यादत आह- 'बहुवेदनाः' वह्नयो वेदनाः - शरीरख्यथा येषां ते तथा, मनुष्याणामिमा मानुष्या न तथाऽमानुष्याः, तासु -नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु 'योनिषु' अभिहितरूपासु 'विनिहन्यन्ते' विशेषेण निपात्यन्ते, अर्थात्कर्म्मभिः कोऽर्थः ? – न तत उत्तारं लभन्ते ' प्राणिनः ' जन्तवः, तदनेन सत्यप्यावर्ते निर्वेदाभावात् कर्म संङ्गसंमूढाः दुःखहेतुनरकादिगत्यनुत्तरणेन प्राणिनो मनुजत्वं न लभन्त इत्युक्तमिति | सूत्रद्वयार्थः ॥ ५-६ ॥ कथं तर्हि तदवाप्तिः ? इत्याह-"
कम्माणं तु पहाणाए, आणुपुवी कयाइ उ । जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ ७ ॥ (सूत्रम् ) व्याख्या- 'कर्मणां ' मनुजगतिविबन्धकानाम् 'तुः' पूर्वस्माद्विशेषद्योतकः 'पहाणाए 'त्ति प्रकृष्टं हानम् - अपगमः
Jain Education International
For Personal & Private Use Only
चतुरङ्गीया ध्ययनम्
३
॥१८३॥
www.jainelibrary.org