SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ | चण्डालग्रहणान्नीचजातयो बुक्कसग्रहणाच्च सङ्कीर्णजातय उपलक्षिताः, 'ततो' मानुषत्वादुद्धृत्येति शेषः, 'कीटः प्रतीतः 'पतङ्गः' शलभः, चः समुच्चये, ततस्तको वा 'कुन्थ् पिपीलिक' त्ति, चशब्दस्य लुप्तनिर्दिष्टत्वात् कुन्थुः पिपीलिका च, भवतीति सर्वत्र सम्बध्यते, शेषतिर्यग्भेदोपलक्षणं चैतदिति सूत्रार्थः ॥ ४ ॥ किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वेत्याहएवमावजोणीसुं, पाणिणो कम्मकिविसा । ण णिविज्जंति संसारे, सबट्ठेसु व खत्तिया ॥ ५ ॥ (सूत्रम् ) कम्मसंगेहि संमूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥६॥ (सूत्रम्) रुमह व्याख्या – 'एवम् ' अमुनोक्तन्यायेन आवर्त्तनम् आवर्त्तः - परिवर्त्त इति योऽर्थो, युवन्ति - मिश्रीभवन्ति कार्मण| शरीरिण औदारिकादिशरीरैरासु जन्तवो जुषन्ते सेवन्ते ता इति वा योनयः, आवर्त्तोपलक्षिता योनयः आवर्त्तयोनयः तासु, 'प्राणिनः' जन्तवः, कर्म्मणा - उक्तरूपेण किल्बिषाः - अधमाः कर्म्मकिल्विषाः, प्राकृतत्वाद्वा पूर्वापरनिपातः, किल्बिषाणि क्लिष्टतया निर्कुष्टान्यशुभानुबन्धीनि कर्माणि येषां ते किल्बिषकर्माणः, 'न निर्विद्यन्ते' कदैतद्विमुक्तिरिति नोद्विजन्ते, क्क या आवर्त्तयोनयः ? इत्याह- 'संसारे' भवे, केष्विव के न निर्विद्यन्ते ? इत्याह- सर्वे च ते अर्थ्यन्त इत्यर्थाश्व - मनोज्ञशब्दादयो धनकनकादयो वा सर्वार्थास्तेष्विव 'क्षत्रियाः' राजानः, किमुक्तं भवति ? - यथा मनोज्ञाम् शब्दादीन् भुआनानां तेषां तर्षोऽभिवर्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्त्यां सत्यां कलंकली भावमनुभव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy