SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चतरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥१८२॥ *HISSORIES धभावनाभाषितान्तःकरणावसरे, असुराणामयमासुरस्तम्असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, बालतपःप्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थ देवलोकोपादानेऽपि पुनरासुरकायग्रहणम् , अथवा देवलोकशब्दस्य सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम् , इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम्, 'आहाकम्मेहिंति आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः, किमुक्तं भवति ?-खयंविहितैरेव सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैः यथाकर्मभिर्वा-तत्तद्गत्यनुरूपचेष्टितैः 'गच्छति' याति, इति सूत्रार्थः ॥३॥ तथाएगया खत्तिओ होइ, तओ चंडालबुक्कसो। तओ कीडपयंगों य, तओ कुंथू पिवीलिया॥४॥(सूत्रम्) व्याख्या-'एकदेति मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले 'खत्तिय'त्ति 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यस्वायत इति क्षत्रियो-राजा भवति, 'तत' इति तदनन्तरं तको वा प्राणी 'चण्डालः' प्रतीतः, यदि वा शूद्रेण ब्राह्मण्यां जातश्चण्डालः, 'बोक्कसो' वर्णान्तरभेदः, तथा च वृद्धाः-"बभणेण सुद्दीओ जातो णिसाउत्ति वुचति, बंभणेण वेसीए जातो अंबटोत्ति वुचति, तत्थ णिसाएणं जो अंबट्टीते जातो सो बुक्कसो भण्णति" इह च क्षत्रियग्रहणादुत्तमजातयः १ ब्राह्मणेन शूद्रयां जातो निषाद इत्युच्यते, ब्राह्मणेन वैश्यायां जातोऽम्बष्ठ इति उच्यते, तत्र निषादेन योऽम्बष्ठयां जातः स बुक्कसो भण्यते, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy