SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ विश्व - जगद् बिभ्रति- पूरयन्ति क्वचित्कदादिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः, उक्तं च- "त्थि किर सो पएसो लोए वालग्गको डिमित्तोऽपि । जम्मणमरणाबाहा जत्थ जिएहि न संपत्ता || १ ||" इदमुक्तं भवति - अवाप्यापि मानुपत्वं स्वकृतविचित्रकर्मानुभावतः पृथग्जातिभागिन्य एव भवन्ति, काः - 'प्रजाः ' जनसमूहरूपाः, तदनेन प्राप्तमानुपत्वानामपि कर्मवशाद्विविधगतिगमनं मनुषत्वदुर्लभत्वे हेतुरुक्तः, यद्वा संसारे कर्माणि नानाविधानि कृत्वा पृथ| गिति भिन्नासु नानागोत्रासु - अनेक कुलको युट्पलक्षितासु जातिषु - देवाद्युत्पत्तिरूपासु समापन्नाः - सम्प्राप्ता वर्त्तन्त इति गम्यते, णेति प्राग्वत्, 'विश्रम्भिताः' सञ्जातविश्रम्भाः सत्यः प्रक्रमात्कर्म्मखेव तद्विपाकदारुणत्वापरिज्ञानात् काः ? - प्रजायन्ते इति प्रजाः - प्राणिन इति सम्बन्धः, तदनेन प्राणिनां विविधदेवादिभवभवनं मूलत एव मनुजत्वदुर्लभत्वे कारणमुक्तमिति सूत्रार्थः ॥ २ ॥ अमुमेवार्थ भावयितुमाह एगया देवलोएसु, नरपसुऽवि एगया। एगया आसुरे काये, आहाकम्मेहिं गच्छइ ॥ ३ ॥ (सूत्रम् ) व्याख्या- 'एकदा ' इत्येकस्मिन् शुभकर्मानुभवकाले दीव्यन्तीति देवाः तेषां लोकाः -- उत्पत्तिस्थानानि देवगत्या - दिपुण्यप्रकृत्युदयविषयतया लोक्यन्त इतिकृत्वा तेषु देवलोकेषु, नरान् कायन्ति - योग्यतयाऽऽह्वयन्तीति नरकाः तेषु | रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य चार्थत्वात्तेषु च, 'एकदा' अशुभानुभवकाले, तथा 'एकदा ' तथावि१ नास्ति किल स प्रदेशो लोके वालाग्रकोटीमात्रोऽपि । जन्ममरणाबाधा यत्र जीवैर्न संप्राप्ताः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy