SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥१८॥ नि 'दुर्लभानि' दुःखेन लभ्यन्त इतिकृत्वा दुष्प्रापाणि 'इह' अस्मिन्संसारे, कस्य ?-जायत इति जन्तुस्तस्य देहिन इत्यर्थः, पठ्यते च-देहिन' इति, कानि पुनस्तानि ?-मनसि शेते मानुषः, अथवा मनोरपत्यमिति वाक्ये "मनोर्जातावयतौ पुक् च" (पा०४-१-१६१) इत्यजि प्रत्यये पुगागमे च मानुषस्तद्भावः मानुषत्वं-मनुजभावः, 'श्रवणं' श्रुतिः, सा च 'अर्थप्रकरणादिभ्यः सामान्यशब्दा अपि विशेषेऽवतिष्ठन्ते' इति न्यायाद्धर्मविषया, श्रद्धाऽपि तत एव धर्मविषया, संयमे' आश्रवविरमणाद्यात्मनि, चः समुचये भिन्नक्रमः, ततो विशेषेणेरयति-प्रवर्त्तयति आत्मानं तासु तासु क्रियाखिति वीर्यं च-सामर्थ्य विशेष इति सूत्रार्थः ॥१॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह* समावण्णाणं संसारे, णाणागोत्तासु जाइसु। कम्मा णाणाविहा कटु, पुढो विस्संभिया पया॥२॥(सूत्रम्) व्याख्या-'सम्' इति समन्तात् आपन्नाः-प्राप्ताः समापन्ना णं इति वाक्यालङ्कारे, क्वेत्याह-संसारे, तत्रापि क?-नाना इत्यनेकार्थः, गोत्रशब्दश्च नामपर्यायः, ततो नानागोत्रासु-अनेकाभिधानासु जायन्ते जन्तव आखिति जातयः-क्षत्रियाद्याः तासु, अथवा जननानि जातयः ततो जातिपु-क्षत्रियादिजन्मसु नाना-हीनमध्यमोत्तमभेदेनानकं गोत्रं यासु तास्तथा तासु, अत्र हेतुमाह-क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वर्त्य 'पुढो त्ति पृथगू भेदेन, किमुक्तं भवति ?-एकैकशः, 'विस्संभिय'त्ति विन्दोरलाक्षणिकत्वाद् ॥१८१ Join Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy