SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ऊहा पन्नन्तं बोडियसिवभूइउत्तराहि इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पन्नं ॥ १ ॥ बोडियस भूईओ वोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुत्पन्ना ॥ २ ॥ व्याख्या – 'ऊहया' स्ववितर्कात्मिकया 'प्रज्ञतं' प्ररूपितं, बोटिकश्वासौ चारित्रविकलतया मुण्डमात्रत्वेन शिवभूतिश्च वोटिकशिवभूतिः स चोत्तरा च तद्भगिनी बोटिकशिवभूत्युत्तरे ताभ्याम् ' इदम् ' अनन्तरोक्तं, यत्रास्यो| त्पत्तिस्तदाह - मिथ्यादर्शनम् 'इणमो'त्ति आर्पत्वादिदं रथवीरपुरे समुत्पन्नम् ॥ बोटिकशिवभूतेर्बोटिक लिङ्गस्य भवत्युत्पत्तिः, पठ्यते च - 'बोडियलिङ्गस्स आसि उप्पत्ती' तत्र च कौण्डिन्यकोट्टवीरौ परम्परा - अव्यवच्छिन्नशि - ष्यप्रशिष्य संतानलक्षणा तस्याः स्पर्शो यत्र तत्परम्परास्पर्श यथा भवत्येवमुत्पन्नौ, अनेन कौण्डिन्यकोट्टवीराभ्यां बोटिक सन्तानस्योत्पत्तिरुक्ता भवतीति गाथाद्वयार्थः ॥ १-२ ॥ इयता ग्रन्थेन श्रद्धा दुर्लभत्वमुक्तम्, अस्याश्च सम्यक्त्वरूपत्वात् सम्यक्त्वपूर्वकत्वाच्च संयमस्य तस्याप्यनेनैव दुर्लभत्वमुक्तमेवेति भावनीयं । तथा चत्वारीत्यङ्गमित्यस्य च व्याख्याने चतुरङ्गेभ्यो हितं तत्खरूपव्यावर्णनेन चतुरङ्गीयमिति व्युत्पत्तिः सुज्ञानैवेति निर्मुक्तिकृता नोपदशिता । गतो नामनिष्पन्न निक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचचत्तारि परमंगाणि, दुलहाणिह जंतुणो । माणुसतं सुई सद्धा, संजमंमि य वीरियं ॥ १ ॥ (सूत्रम् ) व्याख्या- ' चत्वारि' चतुःसङ्ख्यानि परमाणि च तानि प्रत्यासन्नोपकारित्वेन अङ्गानि च मुक्तिकारणत्वेन परमाङ्गा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy