________________
YRAGAISRASOMOSIOSAIC
तूच तस्यानैकान्तिकमनन्तरमेवोक्तमिति किं तनिषेधेन', अथ वस्त्वन्तरविधिस्तत्र वस्त्वन्तरं शक्तिरनागताद्धा वा?, है यदि शक्तिस्तत्र किं यावच्छक्तिस्तावन्मम प्रत्याख्यानम् अथ यावति विषये शक्तिस्तावतीति ?, प्रथमपक्षे 'शकनक्रिPयापरिमाणपरिमितत्वात् प्रत्याख्यानस्य परिमाणवत्त्वमेवोक्तं भवतीति खवचनविरोधः, प्रत्याख्यानानवस्था चैवं,
शक्तेरनियतत्वात् , तथा चातीचारासत्त्वं, तदसत्त्वे च प्रायश्चित्ताभावः, द्वितीयपक्षे तु प्राणवधाद्यन्यतरविरतावपि संयतत्वापत्तिः, शक्त्यपेक्षत्वात्तद्धेतुप्रत्याख्यानस्य, उक्तं च-"एत्तियमेत्ती सत्तित्ति णातियारो ण यावि पच्छित्तं । ण य सव्वव्वयनियमो एगेण य संजयत्तन्ति ॥१॥" अथानागताद्धा तत्रापि किं भावः प्रत्याख्यानं व्यअनं वा?, न तावद् व्यञ्जनं खानादावपि तदुचारणे प्रत्याख्यानप्रसङ्गात् प्रमादतः शक्तिवैकल्यतो वा व्यअनस्खलने तदभावापत्तेच, ततः प्रथमपक्ष एवावशिष्यते, तत्र च सदा सावधमहं न सेविष्ये इति तस्य भाव उत कदाचिदिति ?, यदि आद्यपक्षस्तदा मृतस्यापि तत्सेवायामपरिपूर्णप्रतिज्ञत्वेन व्रतभङ्गप्रसङ्गः, तथा सिद्धानामपि संयतत्वापत्तिः, सकलानागताद्धाप्रत्याख्यानधारित्वात् । एवं च 'सिद्धे नो चारित्ती नो अचारित्ती' इत्यागमविरोधः, अथ द्वितीयपक्षस्तत्र किं यथा भावस्तथा व्यञ्जनमथान्यथा ?, यदि यथा भावस्तथा व्यञ्जनम् एवं सति विज्ञातविषयादेरेव प्रत्याख्यान-18
१ एतावन्मात्रा शक्तिरिति नातीचारो न चापि प्रायश्चित्तम् । न च सर्वव्रतनियम एकेनापि संयतत्वमिति ॥ १॥२ सिद्धा नो चारित्रिणो नो अचारित्रिणः ॥
. . .
dain Education International
For Personal & Private Use Only
www.janelibrary.org