SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१७६॥ | भवदाशयः - सावधि स्यादभिष्वङ्गि, गृहिणामित्वरं यथा । प्रत्याख्यानं तथा चेदं यावज्जीवं यतेरपि ॥ १ ॥ प्रयोगः - यत्परिमाणवत् प्रत्याख्यानं तत्साभिष्वङ्गं, यथा गृहिणामित्वरप्रत्याख्यानं, परिमाणवच्च यतेरपि यावज्जीवं सर्व| सावद्यप्रत्याख्यानमित्ययमनैकान्तिको हेतुः तथाहि -किमत्र परिमाणवत्त्वमात्रेण साभिष्वङ्गता साध्यते उत आशंसयाऽपि ?, प्रथमपक्षे किं यतेरद्धाप्रत्याख्यानमस्ति न वा १, यद्यस्ति किं पौरुष्यादिपदोपेतमितरथा वा ?, यदि पौरुष्यादिपदोपेतं किं न परिणामवत्त्वेन साभिष्वङ्गता ?, अथ न समतास्थितत्वात् तर्हि परिमाणवत्त्वमनैकान्तिकम्, अथानभिमतमेव तत्र पौरुष्यादिपदोपादानम्, एवं सति प्रव्रज्यादिन एवानशनापत्तिः, तथा च- "शिंष्फादिया य सीसा दीहो परिवालितो य परियातो' इत्याद्यागमविरोधः, न चाद्धाप्रत्याख्यानं नास्त्येव यतेरिति पक्षः, 'अणगतमइकतं' इत्यागमेन तस्याभिधानात् द्वितीयपक्षे तु नैवमस्याशंसा-यथा भवान्तरे सावद्यमहं सेविष्ये, येन साभिष्वङ्गता स्यात्, यदपि यावज्जीवेति पदोच्चारणं तदपि व्रतभङ्गभयादेव, तदुक्तम् - "वयं भंग भयाउ श्चिय जावजी - वंति णिहिं" किञ्च - परिणामवत्त्वेन साभिष्वङ्गतां साधयतस्तवाकूतमपरिमाणं प्रत्याख्यानमिति, तत्र च नत्रा परि| माणाभावमात्रमुच्यते वस्त्वन्तरविधिर्वा ?, यदि परिमाणाभावमात्रं तदा तस्याभिष्वङ्गहेतुत्वेनैव निषेधः, तद्धेतुत्वं १ निष्पादिताश्च शिष्याः दीर्घः परिपालितञ्च पर्यायः । २ अनागतमतिक्रान्तं । ३ व्रतभङ्गभयादेव यावज्जीवमिति निर्दिष्टम् ॥ . Jain Education International For Personal & Private Use Only चतुरङ्गीया ध्ययनम् ३ ॥१७६॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy