________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥१७७॥
ROCROCHANAK
मन्यथा तद्भङ्गप्रसङ्गः, ततश्च जीवनहं सावधं न सेविष्ये मृतस्य तु कर्मोदयखाभाव्यादवश्यंभाविन्यविरतिरित्ययमेव तस्य भावः, तथा च यथाभावं व्यञ्जनोचारणे बलादापतितं यावजीवेति, तथा च जीवनावधित्वादपरिमाणत्वहानिः, अन्यथा व्यञ्जनोचारणमिति पक्षे च परिस्फुटैव मृषाभाषिता, ज्ञात्वा अन्यथाभिधानात् , उक्तं च-"जो पुण| अव्ययभावं मुणमाणोऽवस्समाविणं भणति । वयमपरिमाणमेवं पच्चक्खं सो मुसाबाई ॥१॥" ततश्च-नाशंसातो यतस्तस्य, यावजीवेति पठ्यते । किन्तु भङ्गभयादेव, तस्मादस्तु यथास्थितम् ॥१॥ प्रयोगश्च-यत्र नाशंसा न तत्सावधित्वेऽपि साभिष्वङ्गं, यथा कायोत्सर्गो, न विद्यते च यतिप्रत्याख्याने यावजीवेति पदेऽप्याशंसेति, इत्यादि जहा आयरिएहिं भणियं तहा सवे भणंति, जहा एत्तियं भणियं आयरिएहिं, जेऽवि अन्ने थेरा बहुस्सुया अन्नगच्छेल्ला तेऽवि पुच्छिया, एत्तियं चेव भणंति, ताहे भणति-तुब्भे किं जाणह?, तित्थयरेहिं एत्तियं भणियं, तेहिं भणियं-तुमं न जाणसि, जाहे ण हाइ ताहे संघसमवातो कतो, देवयाए काउस्सग्गो कतो, जा सडिया सा
COROSE%
॥१७७॥
१ यः पुनरवतभावं मुणन् अवश्यभाविनं भणति । व्रतमपरिमाणमेवं प्रत्यक्षं स मृषावादी ॥१॥२ यथा आचार्यैर्भणितं तथा सर्वे | भणन्ति, यथैतावद्भणितमाचार्यैः, येऽपि अन्ये स्थविरा बहुश्रुता अन्यगच्छीयास्तेऽपि पृष्टाः, एतावदेव भणन्ति, तदा भणति-यूयं किं जानीथ ?, तीर्थकरैरेतावत् भणितं, तैर्भणितं-त्वं न जानीषे, यदा न तिष्ठति तदा संघसमवायः कृतः, देवतायै कायोत्सर्गः कृतः, या श्राद्धा सा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org