SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ गित्वाविनाभावि येन तदभिधानात्तदप्युक्तं भवेत्, तथा च पूज्याः - "बहुबहुविहाइगहणे णणूवओगबहुआ सुएडमि हिया । तमणेगग्गहणं चिय उवओगाणेगया णत्थि ॥ १ ॥” अथैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेनेति पक्षः, सोऽपि न, यस्माद्यद्यन्यत्रोपयुक्तमपि मनोऽन्यत्राप्युपयुज्यमानं निश्चीयेत तदा क्वचित् व्याक्षिप्तमनाः पुरः सन्निहितपदार्थान्तरेऽप्युपयोगं लक्षयेत्, न चैवं तदुक्तम् - "अन्नंविणिउत्तमन्नं विणितोगं लहति जइ मणो तेणं । हत्थि टियंपि पुरतो किमन्नचित्तो न लक्खेइ १ ॥ १ ॥” ततश्च स्थितमेतत् - गर्वावहितचित्तस्य, नोपयोगो यथा गजे । शीतोपयुक्तचित्तस्य, नोपयोगस्तथाऽऽतपे ॥ १ ॥ प्रयोगश्च य एकत्रावहितचित्तो न सोऽन्यस्य ग्राहको, यथा गवहितचित्तो हस्तिनः, शीतावहितचित्तश्च शीतवेदनाकाले जीवः, इत्थं संज्ञ्युपयोगमाश्रित्योक्तं, सामान्येन तु कारणं परिणाम्ये| कोपयुक्तनिजशक्तिकम् । तदैवाशक्तमन्यस्मिन्नुपयुक्तं (योक्तुं मृदादिवत् ॥१॥ प्रयोगश्च - यत्परिणामि कारणमेकत्रोपयु|क्तशक्तिकं न तदैव तदन्यत्रोपयुज्यते, यथा घटोपयुक्ता मृत् शरावादिषु, शीतवेदनोपयुक्तश्च तत्काले जीवः, उक्तं च"उर्वओगमतो जीवो उवउज्जइ जेण जंमि तं कालं । सो तम्मओवओगो होइ जहिंदोवओगम्मि ॥ १ ॥ सो तदु १ बहुबहुविधादिग्रहणे ननूपयोगबहुता श्रुतेऽभिहिता । तदनेकग्रहणमेव उपयोगानेकता नास्ति ॥ १ ॥ २ अन्यविनियुक्तमन्यं विनियोगं | लभते यदि मनस्तेन । हस्तिनं स्थितमपि पुरतः किमन्यचित्तो न लक्षयति ? ।। १ ।। ३ उपयोगमयो जीव उपयुज्यते येन यस्मिन् तस्मिन् काले । स तन्मयोपयोगो भवति यथेन्द्रोपयोगे ॥ १ ॥ स तदु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy