________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य.
किच-यत्रेन्द्रियपञ्चकमपि सञ्चरन्मनोदुर्लक्षं, अत एव दीर्घा शुष्कां तिलशष्कुलिका भक्षयतो बुद्धस्य पञ्च ज्ञानानि
समुत्पन्नानीति कैश्चिदुच्यते, तत्रैकेन्द्रियस्य देशान्मनः सञ्चरलक्षिष्यत इति दुराशयम् , इह च सञ्चरणमुपयोगगमनम् , बृहद्धृत्तिः
अन्यथा शरीरव्यापिनः तस्य सञ्चारायोगात् , अथात्रानुमानसिद्धः क्रम इति यौगपद्याभावः, तथाहि-यत् क्रियावत् ॥१६६॥
तत् क्रमेणैव देशान्तरस्कन्दि, यथाऽऽदित्यः, क्रियावच सूच्यादि, इदमपि समानमत्रापि, यो दूरदेशी न तयोर्युगपदेकस्य सञ्चारो यथा हिमवद्विन्ध्यशिखरयोदेवदत्तस्य, दूरदेशौ च शिरश्चरणगतत्वगिन्द्रियदेशावित्यनुमानेन मनसःक्रमसचारसिद्धेः, स्यादेतद्-आगमसिद्धमुपयोगयोगपद्यं, न च तद् युगपन्मनसः सञ्चारं विनेति न मनसः क्रमसञ्चारसाध
कानुमानोत्थानम् , आगमसिद्धता चास्य बहुबहुविधादिग्राहित्वाभिधानेनावग्रहादीनामनेकग्रहणस्य तत्रोक्तत्वात् , द तदभिधानाच युगपदनेकोपयोगताऽप्युक्तैवेति, नन्वत्रानेकग्रहणं किं सामान्यविशेषाणां ग्रहणमपेक्ष्य केवलविशेषाणां
वा ?, न तावदाद्यः पक्षो यतोऽनुवृत्तिव्यावृत्तिरूपेण विलक्षणत्वं सामान्यविशेषाणां, तथा चाह-'य एकत्र ग्रहण४ परिणामः स नान्यत्रे'ति कथं युगपत्सामान्यविशेषग्रहणम् ?, अथ द्वितीयः पक्षः, उक्तं हि-"विशेषाणां व्यावृत्तिरूपेदाणाविलक्षणत्वात् युगपद्बहूनामपि ग्रहणम् , तन्न, विरुद्धत्वादस्य, तथाहि-विशेषाश्चाविलक्षणाश्चेति परस्परविरुद्धं वचः,
अथ भिन्नेष्वपि विशेषेष्वभिन्नं सामान्यमिति तद्रूपेण तेषां ग्रहणम् , इदमस्मदिष्टमेव, उक्तं च-"उसिणेयं सीयेयं, ण विभागेणोवओगद्गमिटुं। होजा समदुगगहणं सामन्नं वेयणामेत्तं ॥१॥" न चैवमनेकग्रहणं युगपदनेकोपयो
१ उष्णेयं शीतेयं न विभागेनोपयोगद्वयमिष्टम् । भवेत् समकं द्विकाहणं सामान्यं वेदनामात्रम् ॥ १॥
MEROSILCARCISMASSACROST
॥१६६॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org