SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ सन्तान उच्यते, अथ सदृशक्षणस्यैवोत्पत्तिर्दृष्टा, तर्हि वस्तु कथंचित् स्थितिमदपि दृष्टमिति तथैवास्तु, सजातीयेत - व्यावृत्तवस्तुवादिनां च न किञ्चित्तात्त्विकं सादृश्यम् अतात्त्विकं च खपुष्पमिव न तत्त्वविचारोपयोगि, पूर्वापरविनिर्लुठितैकक्षणाभ्युपगमे च सन्तानिनोऽप्यसन्त एवेत्ययुक्तस्ततो भेदाभेदविचारः, अथ प्रायोगिकं विनाशमाश्रित्य भावानां विनाशनैयत्यं साध्यते, तर्हि तस्य हेत्वन्वयव्यतिरेकानुविधायित्वेनानपेक्षत्वमसिद्धम्, तथाहितत्किं विनाशहेतूनामसामर्थ्यादथ, वैयर्थ्यात् कृतकत्वे विनाशस्यापि विनाशप्रसङ्गतो वा ?, यद्यसामर्थ्यात्तत्किं विना - शस्य तुच्छरूपतया कर्तुमशक्यत्वेन वस्त्वन्तरोत्पादव्यापृतत्वेन वा ?, तत्राद्यपक्षे विनाशस्य तुच्छरूपत्वमसिद्धं, यतो जैनानामुत्तरावस्थोत्पाद एवं पूर्वावस्थाप्रच्युतिर्नान्या, यदुक्तम् - "कपालानां तु उ ( समुत्पादः, स एव च घटव्ययः । अन्यो न दृश्यते नाशो, मध्ये कुम्भकपालयोः ॥ १ ॥ " न चानयोरेकत्वे विरोधो, निमित्तभेदोदयत्वाद्, यदुक्तम् - " एकत्वेऽपि विरुद्धत्वं, न चोत्पादविनाशयोः । निमित्त भेदभूतत्वान्नप्तृपुत्र पितृत्ववत् ॥ १ ॥” सिद्धे चैकत्वे पूर्वविनाशाभूत एवोत्तरोत्पाद इत्यनयोस्तुल्य एव हेतुव्यापारः, ततो भावान्तरोत्पादव्यापृतत्वेनेत्यपि प्रत्युक्तम्, उक्तं च - "अन्यदुत्तरसम्भूतिः, पूर्वनाशाविनाकृता । नाविनाश्य ततः पूर्व, प्रकुर्याद्धेतुरुत्तरम् ॥ १ ॥” अथ वैयर्थ्यात् स्वयं हि विनश्वरखभावो भाव इति किं तस्य विनाशहेतुना ?, नन्वेवं नाशस्वभावत्वाद्वस्तुन उत्पाद एव न स्यात्, नाशोत्पादयोर्विरुद्धत्वेन त्वयाऽभ्युपगतत्वाद्, अविरुद्धताभ्युपगमें वा जैनमतानुप्रवेशः, यदपि - 'कृत - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy