________________
उत्तराध्य.
बृहद्वृत्तिः
॥१६३॥
+
तर्हि प्रत्यक्ष निराकृतः पक्षो, द्रव्यरूपेणावस्थितस्यैव वस्तुनो दर्शनात्, अन्यथा द्वितीयादिसमयेषु वस्तुनोऽभावप्रसङ्गः, वस्त्वन्तरोत्पत्तेरदोष इति चेत् किं न तद्भेदेन प्रतिभाति ?, अथ माया गोलकवत्सादृश्यात्, तन्न, प्रत्यक्षेणैकत्वग्रहा - | देव भेदाप्रतिभासात्, अथ भ्रान्तमेवैकत्वग्राहि प्रत्यक्षम्, एवं च सति चक्रकाख्यो दोषः, एकत्वग्राहिणो हि प्रत्यक्षस्य भ्रान्तत्वं प्रकृतानुमानप्रामाण्ये, तच्च सादृश्याद्भेदाप्रतिभासे, स चैकत्वग्राहिणः प्रत्यक्षस्य भ्रान्तत्वे, तदपि प्रकृतानुमानप्रामाण्ये इति तदेवावर्त्तते, ऐहिकामुष्मिकव्यवहारविलुप्तिश्च सर्वथा नाशे, तथा चाह - "तित्ती समो किलामो सारिक्ख विपक्खपञ्चयाईणि । अज्झयणं झाणं भावणा य का सघणासम्मि ? ॥ १ ॥ अन्नन्नो पइगासं भोत्ता अन्नोन्नंसोsa का तित्ती ? । गन्तादओवि एवं इय संववहारवोच्छित्ती ॥२॥” अथ सन्तानाश्रयो व्यवहारः, सन्तानोऽपि सन्तानिभ्यः किं भिन्नो नवा ?, यदि भिन्नो वस्तुसन्न वा ?, यदि न वस्तुसन्, किं तेन शशविषाणेनेव कल्पितेन ?, वस्तु| सवेऽपि क्षणिकोऽक्षणिको वा ?, यद्यक्षणिकस्तेनैव प्रकृतानुमानव्यभिचारः, क्षणिकत्वे च तदवस्थैव व्यवहारविलुप्तिः, | अथाभिन्नः, तथाहि - सदृशापरापरक्षणप्रबन्धः सन्तानः, स च सन्तानिन एव, तदसत् यतः सर्वथोच्छेदे प्राग्भावित्वमेव कारणस्य कारणत्वं तच्च विसदृशक्षणापेक्षयाऽपि समानमिति कथं सदृशक्षणस्यैवोत्पत्तिः ? येन तत्प्रबन्धः
१ तृप्तिः श्रमः क्रमः सादृश्यं विपक्षः प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे १ ॥ १ ॥ अन्योऽन्यः प्रतिग्रासं भोक्ताऽन्योऽन्यः का तृप्तिः ? । गन्नादयोऽप्येवमिति संव्यवहारव्युच्छित्तिः ॥ २ ॥ २ अन्ते न सोऽवि (वि०)
Jain Education International
For Personal & Private Use Only
चतुरङ्गीया ध्ययनम्
३
॥ १६३॥
www.jainelibrary.org