________________
उत्तराध्य. बृहद्धृत्तिः
वण्णेऊणं सुयाणुसारेणं । विणयसुयं आउजं चउसुंपि कमेण भावेसुं॥२॥ जेण सुहप्पज्झयणं अज्झप्पाणयणमहिय अध्ययनम् णयणं वा । बोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ॥३॥ अक्खीणं दिजंतं अघोच्छित्तिणयतो अलोगो छ। आओ णाणाईणं झवणा पावाण कम्माणं ॥४॥प्रकटार्था एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्य-पुण्यस्यात्मन्याधिक्येनायन-गमनं ततो भवति, पठ्यते वा-'सुहज्झप्पयणं'ति, तत्र शुभं-सङ्क्लेशविरहितमध्यात्म-मनः तत्रायनमर्थादात्मनः ततः, (अध्यात्मस्थानयनं प्रापणमात्मनि ततो भवति) तथाऽधिकं नयनं-प्रकर्षवत्प्रापणं, कस्य ?-बोधस्य-तत्त्वावगमस्य संयमस्य वा-पृथिव्यादिसंरक्षणात्मकस्य मोक्षस्य वा-कृत्स्त्रकर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, 'ततः' तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा 'अव्यवच्छित्तिनयतः' अव्यवच्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति । नामनिष्पन्ननिक्षेपेऽस्य विनयश्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः । तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाह|विणओ पुबुद्दिट्टो सुयस्स चउक्कओ उ निक्खेवो। दवसुय निण्हगाइ भावसुय सुए उ उवउत्तो ॥२९॥8॥ १५ ॥ ध्यात्मानयनमधिकनयनं वा । बोधस्य संयमस्य च मोक्षस्य वा ततस्तध्ययनम् ॥ ३२ ॥ अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक |इव । आयो ज्ञानादीनां क्षपणा पापानां कर्मणाम् ॥ ३३ ॥ एताश्चतस्रोऽपि आवश्यकनियुक्तिगाथाः सोपयोगतरा इति च संस्कृता ज्ञेयाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org