________________
यत्रापि परोभयसमयपदार्थवर्णनं तत्रापि खसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन खसमयत्वात् , अत एव सर्वाध्ययनानामपि खसमयवक्तव्यतायामेवावतारः, तदुक्तम्-"परसमओ उभयं वा सम्महिहिस्स ससमओ जेणं । तो सबज्झयणाई ससमयवत्तबनिययाइं॥१॥" ति । अर्थाधिकारः 'पढमे विणओ' इत्यनेन खत एव नियुक्तिकृताऽभिहित इति नोच्यते । इह च वक्तव्यता प्रतिसूत्राभिधेयार्थविषया, अर्थाधिकारस्तु 'अहिगारो इत्थ विणएण' मित्यनेनैवाभिहितः । समवतारस्त्वानुपूर्व्यादिषु लाघवार्थ यथासम्भवमुक्त एव इति न पुनरुच्यते, उक्तं
च-"अहुणा य समोयारो जेण समोयारियं पइदारं । विणयसुयं सोऽणुगतो लाघवओ ण उण वचेत्ति ॥१॥" |निक्षेपस्त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, आह च-"भण्णइ घेप्पइ य सुहं णिक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेयवं तओऽवस्सं ॥१॥" (ओघः) अध्ययनादि सामान्यनाम, आह च|ओहो जं सामन्नं सुयाभिहाणं चउविहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥१॥णामादि चउब्भेयं ___ १ परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन । ततः सर्वाण्यध्ययनानि खसमयवक्तव्यतानियतानि ॥ १॥ २ अधुना च समवतारो येन समवतारितं प्रतिद्वारम् । विनयश्रुतं सोऽनुगतो लाघवतो न पुनर्वाच्य इति ॥१॥ ३ भण्यते गृह्यते च सुखं निक्षेपपदानुसारतः शास्त्रम् । ओघो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ।। ३ ॥ ४ ओघो यत् सामान्यं श्रुताभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ ३० ॥ नामादि चतुर्भेदं वर्णयित्वा श्रुतानुसारेण । विनयश्रुतमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ ३१ ॥ येन शुभात्माध्ययनम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org