________________
उत्तराध्य.
ऽवयारो से"। गुणप्रमाणं तु द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्रास्य जीवोपयोगरूपत्वाजीवगुणप्रमाणे- अध्ययनम्
वतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतख्यात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानाऽऽगमाबृहद्वृत्तिः त्मके प्रकृताध्ययनस्याप्तोपदेशरूपतयाऽऽगमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रा॥१४॥
सार्थोभयात्मनि, तथा चाह-"जीवाणण्णत्तणओ जीवगुणेणेह भावओ नाणे । लोउत्तरसुत्तत्थोभयागमे तस्स भावाओ
॥१॥” तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधे अर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु स्थविरतच्छिप्यतत्प्रशिष्यानपेक्ष्य यथाक्रममस्यात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमनुयोगद्वारादिषु प्रपञ्चितमिति तत |एवावधारणीयं, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतरष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां ।
कालिकश्रुतपरिमाणसङ्ख्यायां, दिवा रात्रौ च प्रथमपश्चिमपौरुष्योरेवैतत्पाठनियमात् , तत्रापि शब्दापेक्षया |सङ्ख्ययाक्षरपादश्लोकाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम् , अनन्तगमपर्यायत्वादागमस्य, तथा चाह-"अणंता गमा अणंता पजवा” इत्यादि । वक्तव्यता-पदार्थविचारः, सा च खपरोभयसमयभेदतस्त्रिधा, तत्र खसमयः-अर्हन्मतानुसारिशास्त्रात्मकः, परसमयः-कपिलाद्यभिप्रायानुवतिग्रन्थखरूपः, |उभयसमयस्तूभयमतानुगतशास्त्रखभावः, तत्रास्य खसमयवक्तव्यतायामेवावतारः, खसमयपदाथोनामेवात्र वर्णनात्,
१ जीवानन्यत्वाज्जीवगुणेनेह भावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयात्मके तस्य भावात् । १ । २ अनन्ता गमा अनन्ताः पयेवाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org