________________
ACCOSMADHANAL
मन्त्यत्वात् , तलैयत्यं च निरूपणायां पर्यन्तभवनात्, तन्नियमोऽपि विवक्षानियमादिति, एवं सति चक्रवत् पुनः पुनरावर्त्तते इति, यदि च पूरणत्वमन्त्यस्य विशेषः तदा तच्छेषप्रदेशापेक्षमेवेत्यन्त्याविनाभावित्वे तदविनाभावित्वमपि बलादापततीति सकलप्रदेशाविनामावित्वात्तदात्मकत्वसिद्धिः, नाप्युपकारित्वं विशेषः, यतस्तदन्येषामपि कथं न ?, किमात्मप्रदेशा एव न ते ?, यद्वाऽऽत्मप्रदेशत्वेऽप्येकका इति ?, न तावदाद्यः पक्षः, अशेषाणामात्मप्रदेशत्वेन वादिप्रतिवादिनोरिष्टत्वात् , अथात्मप्रदेशत्वेऽप्येकका इति, एकत्वं त्वन्मतान्त्यप्रदेशसहायकाभावात् परस्परसाहायकवि६ रहतो वा ?, यदि त्वन्मतान्त्यप्रदेशसहायकाभावात् शेषप्रदेशानामनुपकारित्वं, त्वन्मतस्यान्त्यस्यापि तत्साहायका
सत्त्वात् तदस्तु, युक्तं च बहूनामुपकारित्वम् , एकस्य तु तदभावो, यदुक्तम्-"जुत्तो य तदुवयारो देसूणे ण उ पएस|मेत्तंमि । जह तंतूणंमि पडे पडोक्यारो न तंतुंमि ॥१॥" नापि परस्परसहायकासत्त्वात् , यतस्ततिं त्वत्कल्पितान्त्यप्रदेशतो न्यूनत्वे तदभावे वा?, यदि न्यूनत्वे तत्किं शक्तितोऽवगाहनातो वा ,न तावच्छक्तितः, एकपटतन्तूनामिवैकात्मप्रदेशानां तन्न्यूनत्वायोगात् , नाप्यवगाहनातः, सर्वेषामप्यमीषामेकैकाकाशप्रदेशावगाहित्वेन तुल्यत्वात् , तदभावपक्षे चान्त्यप्रदेशस्येव शेषप्रदेशानामप्यात्मोपकारित्वं सिद्धमेव, आगमाभिहितत्वं च विशेषकमुच्यमानं तदन्यतामेव सूचयति, यतःस्फुटमेवागमवचनं “कसिणे पडिपुण्णे लोगागासपएसतुल्लुपएसे जीवत्ति वत्तवं सिय” त्ति, ततश्च१ युक्तश्च तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न तन्तौ ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org