SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. * स्थविरैरभाणि-भद्र ! भवतोऽयमाशयः-यथा संस्थान एवास्ति, घटस्तेन तदात्मकः । तदन्त्यदेश एवास्ति, जीवस्तेन चतुरङ्गीया तदात्मकः॥१॥ प्रयोगश्च-यस्मिन्नेव सति यद्भवति तत्तदात्मकं, यथा संस्थान एव सति भवन् घटस्तदात्मकः, ध्ययनम् बृहद्वृत्तिः अन्त्यदेश एव च सति भवत्यात्मा, अत्रासिद्धो हेतुः, तथाहि-कथमात्मनोऽन्त्यप्रदेशे एव सति भावः ?, अथ शेषप्रदे॥१५॥ शेषु सत्सु अप्यसौ नास्तीति, तत्किमस्य शेषप्रदेशानां च कश्चिद्विशेषोऽस्ति न वा , नास्ति चेकिं न शेषप्रदेशभावे |ऽप्यस्य सद्भावः, अथास्ति चेत् , स किं पूरणत्व १ मुपकारित्व २ मागमाभिहितत्वं ३वा ?, यदि पूरणत्वं तत्किं वस्तुतो| ...18|विवक्षातो वा ?, वस्तुतश्चेत्किमस्यैव पूरणत्वं ? न शेषप्रदेशानाम् । अथास्यैव अन्यत्वाद्, अन्त्यत्वमप्यात्मप्रदेशापक्ष || तदवष्टब्धाकाशप्रदेशापेक्षं वा ?, न तावदात्मप्रदेशापेक्षम्, आत्मप्रदेशानां कथञ्चित्पाथोवदावर्तमानत्वेनानवस्थिता-1 नामयमन्त्योऽनन्त्यश्चायमिति विभागाभावात् , ये पुनरष्टौ स्थिराःते मध्यवर्तिन एव, नापि तदवष्टब्धाकाशप्रदेशापेक्षं, | तेषामशेषदिक्षु पर्यन्तसम्भवेनैकस्यैवान्त्यत्वाभावात, देशान्तरसंचारे चानवस्थितत्वात् , न च वस्तुतोऽन्त्यस्यैव पूरणत्वं, द्वितीयादीनामपि पूरणत्वाद्, अन्यथा तथा तथा व्यपदेशानुपपत्तेः, विवक्षातोऽपि न, यतोऽसौ खस्याशेषपुरुषाणां वा ?, यद्यशेषपुरुषाणां नेय नियता, न हि सर्व एव भवदभिमतमेकं पूरणमाचक्षते, नापि खस्य, यतोऽस्या अपि कुतो ॥१५८॥ नियतत्वम् ?, अथान्त्यत्वाद् एतदपि कुतो नियतम् ?, 'एगे भन्ते ! जीवप्पएसे जीवत्ति वत्तवं सिया ! इत्यादिनिरूप-2 प्राणायां पर्यन्तभवनात् , तन्नियमोऽपि कुतो ?, विवक्षानियमात् , एवं सति चक्रकाख्यो दोषः, तथाहि-विवक्षानयत्य Jain Education International For Personal & Private Use Only www b rary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy