________________
चतुरङ्गीया
ध्ययनम्
बृहद्वृत्तिः
उत्तराध्य. || तथाहि-कृतक्रियमाणके किमेकान्तेन निश्चितभेदे ? अथ कथञ्चिद् ?, यद्येकान्तेन तत्किं तदैक्ये सतोऽपि करणप्र-
सङ्गतः १ उत क्रियानुपरमप्राप्ते २ राहोखित् प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्ते ३ रथ क्रियावैफल्याऽऽप
त्तितो ४ दीर्घक्रियाकालदर्शनानुपपत्तेर्वा ५१, तत्र न तावत्सतोऽपि करणप्रसङ्गत इति युक्तम् , असत्करणे हि ॥१५॥ खपुष्पादेरेव करणमापद्यत इति कथञ्चित्सत एव करणमस्माभिरभ्युपगतं, न चाभ्युपगतार्थस्य प्रसअनं युज्यते १,
नापि क्रियानुपरमप्रासः, यत इह क्रिया किमेकविषया भिन्नविषया वा?, यद्यकविषया न कश्चिद्दोषः, तत्र हि यदि कृतं क्रियमाणमुच्यते तदा तन्मतेन निष्पन्नमेव कृतमिति तस्यापि क्रियमाणतया क्रियानुपरमप्राप्तिलक्षणो दोषः स्यात् , न तु क्रियमाणं कृतमित्युक्ती, तत्र क्रियाऽऽवेशसमय एव कृतत्वाभिधानात् , उक्तं हि-"क्रियाकालनिष्ठाकालयोरैक्य"मिति, अथैवमपि कृतक्रियमाणयोरैक्ये कृतस्य सत्त्वात् सतोऽपि करणे तदवस्थः प्रसङ्गः, तदसत् ,
पूर्व हि लब्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात् , न तु क्रियासमकालसत्तावाप्तौ, अथ भिन्नविषया क्रिया तदा है सिद्धसाधनं, प्रतिसमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमेन भिन्नविषयक्रियानुपरमस्यास्माकं सिद्धत्वात् २, अथ
प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्तेरिति पक्षः, क्रियमाणस्य हि कृतत्वे प्रथमादिसमयेष्वपि सत्त्वादुपलम्भः प्रसज्यत इति, तदपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यन्ते एव, उक्तं च-"अन्नारम्भे अन्नं १ अन्यारम्भेऽन्यत् कथं दृश्यतां यथा घटः पटारम्भे ? | शिवकादयो न कुम्भः कथं दृश्यतां स तदद्धायाम् ॥ १॥
॥१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org