________________
*
*
कह दीसउ ? जह घडो पडारम्भ। सिवकादतो ण कुम्भो कह दीसउ सो तदद्धाए॥१॥" घटगताभिलाषतया | च मूढः शिवकादिकरणेऽपि घटमहं करोमीति मन्यते, तथा चाह-"पईसमयकजकोडीनिरवेक्खो घडगयाभिलासोऽसि । पइसमयकजकालं थूलमइ घडं मिलाएसि ॥१॥" ३, नापि क्रियावैफल्याऽऽपत्तितो, यतः प्रागेवं प्राप्तसत्ताकस्य करणे क्रियावैफल्यं स्यात् , न तु क्रियमाणकृतत्वे, तत्र हि क्रियमाणं क्रियापेक्षमिति तस्याः साफल्य
मेव, अनेकान्तवादिनां च केनचिद्रूपेण प्राक् सत्त्वेऽपि रूपान्तरेण करणं न दोषाय ४, दीर्घक्रियाकालदर्शनानुपपहत्तेरित्यपि न युक्तं, यतः शिवकाधुत्तरोत्तरपरिणामविशेषविषय एव दीर्घक्रियाकालोपलम्भो न तु घटक्रियाविषयः,
उक्तं हि- “पईसमउप्पण्णाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किंथ कुंभस्स ? ॥१॥" ५। अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे, तत्तीर्थकृदुक्तमेव, निश्चयव्यवहारानुगतत्वात् तद्वचसः, तत्र
च निश्चयनयाऽऽश्रयेण कृतक्रियमाणयोरभेदो, यदुक्तम्-"क्रियमाणं कृतं दग्धं, दह्यमानं स्थितं गतम् । तिष्ठच दगम्यमानं च, निष्ठितत्वात् प्रतिक्षणम् ॥१॥" व्यवहारनयमतेन तु नानात्वमप्यनयोः, तथा च क्रियमाणं
उन्न १ प्रतिसमयकार्यकोटीनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमतिर्घट मेलयसि (घटे गृह्णासि ) ॥१॥ २ प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किमथ कुम्भस्य ? ॥१॥
%%
829
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org