________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥१५॥
लाधवलोकनगोचरात् , 'रमणात्' कुर्कुटादिक्रीडात्मकात्, क्वचित्सुपोऽश्रवणं प्राग्वत्, प्रक्रान्तार्थनिगमनायाह'एभिः' अनन्तरोक्तखरूपैः कारणैः' आलस्यादिहेतुभिः 'लद्रण सुदुल्लहंपि' त्ति अपेभिन्नक्रमत्वालब्ध्वाऽपि 'सुदुर्लभम्' अतिशयदुरापं 'मानुष्यं' मनुजत्वं 'न लभते' न प्राप्नोति श्रुति' धर्माकर्णनात्मिका, कीदृशीम् -'हितकरीम्' इह परत्र च तथ्यपथ्यविधायिनीम् , अत एव संसारादुत्तारयति-मुक्तिप्रापकत्वेन निस्तारयति इति संसारोत्तारणी तां 'जीवः' जन्तुः इति गाथार्थः ॥१६०-१६१॥ इत्थं धर्मश्रुतिदुर्लभत्वमभिधाय तल्लामेऽपि श्रद्धादुर्लभत्वमाहमिच्छादिट्ठी जीवो उवइटुं पवयणं न सहहइ । सदहइ असब्भावं उवइ8 वा अणुवइटुं ॥ १६२ ॥ सम्मदिट्टी जीवो उवइटुं पवयणं तु सद्दहइ । सदहइ असब्भावं अणभोगा गुरुनिओगा वा ॥१६३॥ ___ व्याख्या-मिथ्या इति-विपरीता दृष्टि:-बुद्धिरस्येति मिथ्याष्टिः, जीवः 'उपदिष्टं' गुरुभिराख्यातं 'प्रवच
नम्' आगमं 'न श्रद्धत्ते' इदमित्थमिति न प्रतिपद्यते, कदाचित्तद्विपरीतमपि न श्रद्दधातीत्याह-'श्रद्धत्ते' तथेति । ६ प्रतिपद्यते, किं तदित्याह-अविद्यमानाः सन्तः-परमार्थसन्तो भावा-जीवादयोऽभिधेयभूता यस्मिन् तदसद्भावम् ,
सर्वव्याप्यादिरूपात्मादिप्रतिपादकं कुप्रवचनमिति गम्यते, 'उपदिष्टं परेण कथितं, वाशब्दस्य भिन्नक्रमत्वात् अनुपदिष्टं वा-खयमभ्यूहितमिति गाथार्थः ॥ १६२॥ इत्थं श्रद्धादुर्लभत्वमभिधाय साम्प्रतं लब्धाया अप्युपघातसम्भवमाह-संम' गाहा, तथा सम्यक् इति-प्रशंसार्थोऽपि निपातः, यद्वा समञ्चति-जीवादीनवैपरीत्येनाव
॥१५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org