________________
*
*
*
*
*
गच्छत्ति इति सम्यक तथा दृष्टिः अस्येति सम्यग्दृष्टिः जीव उपदिष्टं प्रवचनं, तुशब्दो मिथ्यारष्टितः सम्यग्दृष्टेर्विशेषमाह, श्रद्धत्ते' निःशवं प्रतिपद्यते, तत्किमसौ प्रवचनमेव श्रद्धत्ते इत्याह-श्रद्धत्ते 'असद्भावम्' उक्तखरूपम् 'अनाभोगात्' अज्ञानात् , तथा 'गुरवः' धर्माचार्यास्तेषां नियोगः-व्यापारणं गुरुनियोगस्तस्माद्वा, कश्चिद्धि सम्यग्दृष्टिविशेषतो जीवादिखरूपानवगमाद् गुरुप्रत्ययाचातत्त्वमपि तत्त्वमिति प्रतिपद्यते । तदेवं प्रथमगाथया मिथ्यात्वहेतुकत्वमश्रद्धानस्योक्तम्, द्वितीयगाथया पुनस्तदभावेऽप्यनाभोगगुरुनियोगहेतुकत्वं, तथा च मिथ्यात्वादितद्धेतूनां व्यापित्वादश्रद्धानभूयस्त्वेन श्रद्धानदुर्लभतोक्ता भवतीति गाथाद्वयपरमार्थः ॥ १६३ ॥ ननु किमेवंविधा अपि केचिदत्यन्तमृजवः सम्भवेयुः? ये खयमागमानुसारिमतयोऽपि गुरूपदेशतोऽन्यथापि प्रतिपद्येरन् , एवमेतत् , तथाहि-जमालिप्रभृतीनां निह्नवानां शिष्यास्तद्भक्तियुक्ततया स्वयमागमानुसारिमतयोऽपि गुरुप्रत्ययाद्विपरीतमर्थ प्रतिपन्नाः, उक्तं हि-"तए णं तस्स जमालिस्स अणगारस्स एवमाइक्खमाणस्स एवं भासंतस्स एवं पण्णवेमाणस्स एवं परूवेमाणस्स अत्थि एगयया समणा णिग्गंथा एयमद्वं सद्दहति पत्तियंति रोयंति" इत्यादि। के पुनरमी असद्भावं प्रतिपन्ना इत्याह
१ ततस्तस्य जमालेरनगारस्य एवमाख्यायत एवं भाषमाणस्य एवं प्रज्ञापयत एवं प्ररूपयतः सन्त्येके श्रमणा निम्रन्थाः (ये) एनमर्थ श्रद्दधति प्रतियन्ति रोचन्ते ।
*
***
***
*
Jan Educantare
For Personal & Private Use Only
www.janelibrary.org