________________
गता अपि ज्ञानसुखादय इति नात्र महदन्तरमुत्पश्यामः, उक्तं चाश्वसेनवाचकेन-"आत्मप्रत्यक्ष आत्माऽय"मित्यादि, अथायं न दृग्गोचर इति नास्तीत्युच्यते, नायमप्येकान्तो, यतस्तेनैवोक्तम्-"न च नास्तीह तत् सर्व चक्षुषा यन्न गृह्यते," अन्यथा चैतन्यमपि न दृग्गोचर इति तस्याप्यसत्त्वं स्यात् , अथ तत् स्वसंविदितमिति सदुच्यते, अयमपि तथाभूत एवेति सन्नस्तु, उक्तं हि-"अस्त्येव चात्मा प्रत्यक्षो, जीवो ह्यात्मानमात्मना । अहमस्मीति संवेत्ति, रूपादीनि यथेन्द्रियैः ॥१॥” इति, किंबहुना ?, यथा चैतन्यमस्तीत्यभ्युपगम्यते तथाऽऽत्माप्यभ्युपगन्तव्यः, तथा चाह-"ज्ञानं खस्थं परस्थं वा, यथा ज्ञानेन गृह्यते । ज्ञाता खस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् ॥१॥” इति । अथ सर्वसम्बन्ध्यनुपलम्भ आत्माभावे हेतुः, अयमप्यसिद्धः, अहमस्मीति प्रत्ययेन प्रतिप्राणि खात्मनः केवलिनां च । सर्वात्मनामुपलम्भस्य प्रतिषेद्धुमशक्यत्वात् । एवमृद्धीनामप्यभावे सर्वसम्बन्ध्यनुपलम्भोऽसिद्धः, वसम्बन्धी तु नियतदेशकालापेक्षोऽन्यथा वा?, प्रथमपक्षे को वा किमाह ?, क्वचित्कदाचित्तासामनुपलम्भस्य (उपलम्भस्य) चास्माकमपि संमतत्वात् , द्वितीयपक्षे पुनरनैकान्तिकता, देशादिविप्रकृष्टानामनुपलम्भेऽपि सत्त्वात् , दृश्यते च क्वचित् कदाचित् चरणरेणुस्पर्शादितो रोगोपशमादि, ततश्चेहापि कालान्तरे महाविदेहादिषु सर्वकालमृद्ध्यन्तराणामपि सम्भवस्थानुमी-| यमानत्वात् , यदपि-बञ्चितोऽस्मीति भोगसुखानामनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेनेति, तदप्यसमीक्षिताभिधानं, भोगसुखानां दुःखानुषक्तत्वेन तत्त्ववेदिनामनादेयत्वात् , तथा च वात्स्यायनोऽप्याह
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org