________________
उत्तराध्य.
बृहद्वृत्तिः ॥१३॥
त्थि णूणं परे लोए, इड्डी वावि तवस्सिणो। अदुवा वंचिओमित्ति, इइ भिक्खूण चिंतए॥४४॥(सूत्रम्) परीषहा__ व्याख्या-'नास्ति' न विद्यते 'नूनं' निश्चितं 'परलोको' जन्मान्तरमित्यर्थः, भूतचतुष्टयात्मकत्वाच्छरीरस्य, तस्य ध्ययनम् चेहैव पातात्, चैतन्यस्य च भूतधर्मभूतत्वात् , तदतिरिक्तस्य चात्मनःप्रत्यक्षतोऽनुपलभ्यमानत्वाद्, 'ऋद्धिा ' तपोमाहात्म्यरूपा, अपिः पूरणे, कस्य ?-तपखिनः, सा च आमशोषध्यादिः- पादरजसा प्रशमनं सर्वरुजां साधवः क्षणात्कुयुः । त्रिभुवनविस्मयजननान् दधुः कामांस्तृणाग्राद्वा ॥१॥ धर्माद्रनोन्मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । | अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ॥ २॥' इत्यादिका च, तस्या अप्यनुपलभ्यमानत्वादिति भावः, 'अदुव'त्ति अथवा, किंबहुना ?-वञ्चितोऽस्मि भोगानामिति गम्यते 'इती'त्यमुना शिरस्तुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तं च-"तपांसि यातनाश्चित्राः, संयमो भोगवञ्चना"इत्यादि, 'इती'त्यनन्तरमुपदर्शितं भिक्षुः 'न चिन्तयेत्' न ध्यायेत् , परिफल्गुरूपत्वादस्य, तथाहि-यत्तावदुक्तं- भूतचतुष्टयात्मकत्वाच्छरीरस्य जन्मान्तराभाव' इति, तदसत् , न हि शरीरस्य जन्मान्तरानुयायित्वमस्माभिरुच्यते, किन्त्वात्मनः, न च भूतधर्म एव चैतन्ये आत्मव्यपदेशः, तस्य तद्धर्मत्वेनोत्तरत्र निषेत्स्यमानत्वात् , यदपि ऋद्धिर्वा तपखिनो नास्ति, तदपि वचनमात्रमेव, अथात्मन
पात्मना ॥१३॥ ऋद्धीनां चाभावे अनुपलभ्भो हेतुरुक्तः, सोऽपि खसम्बन्धी सर्वसम्बन्धी वा ?, तत्र न तावदात्मनोऽभावे स्वसम्बमध्यनुपलम्भो हेतुः, स्वयं तस्य घटादिवदुपलभ्यमानत्वात् , यथैव हि घटादिगता रूपादय उपलभ्यन्ते, तथा आत्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org