________________
उत्तराध्य.
बृहद्वृत्तिः
॥१३२॥
"तद्यथा-विषसम्पृक्तमन्नमनादेयमेवं दुःखानुषक्तं सुखमनादेय"मिति, प्रयोगश्च-यद्विपक्षानुविद्धं न तत्तत्त्वतस्तदेव, परीषहायथा विषव्यामिश्रमन्नम् , अतृप्तिकाङ्क्षाशोकादिनिमित्तं च वैषयिक सुखं, न चास्यासिद्धता, कालत्रये यथायोगम- ध्ययनम् तृप्त्यादीनां प्रतिप्राणि वसंविदितत्वात् , नापि तपसो यातनात्मकत्वं, मनइन्द्रिययोगानामहान्यैव तत्प्रतिपादनात्, उक्तं हि-"मनइन्द्रिययोगानामहानिश्चोदिता जिनः । यतोऽत्र तत्कथं तस्य, युक्ता स्यात् दुःखरूपता? ॥१॥" |शिरस्तुण्डमुण्डनादेश्च किञ्चित्पीडात्मकत्वेऽपि समीहितार्थसम्पादकत्वेन न दुःखदायकता, यदुक्तम्-“दृष्टा चेष्टार्थसंसिद्धौ, कायपीडाऽप्यदुःखदा । रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् ॥१॥" प्रयोगश्च-यदिष्टार्थप्रसाधकं न तत्कायपीडात्मकत्वेऽपि दुःखदायि, यथा रत्नवणिजामध्वश्रमादि, इष्टार्थप्रसाधकं च तपः, न चास्याप्यसिद्धता, प्रशमहेतुत्वेन तपसस्तत्परिपक्तितारतम्यात्परमानन्दतारतम्यस्यानुभूयमानत्वेन तत्प्रकर्षे तस्यापि प्रकर्षानुमानात्, प्रयोगश्च-यत्तारतम्येन यस्य तारतम्यं तस्य प्रकर्षे तत्प्रकर्षो, यथाऽमितापप्रकर्षे तपनीयविशुद्धिप्रकर्षः, अनुभूयते च प्रशमतारतम्येन परमानन्दतारतम्यं, लोकप्रतीतत्वाचेति सूत्रार्थः॥४४॥ तथाअभू जिणा अस्थि जिणा, अदुवावि भविस्सइ।मुसं ते एवमाहंसु, इति भिक्खून चिंतए॥४५॥(सूत्रम्)| ॥१३२॥
व्याख्या-'अभूवन्' आसन् 'जिनाः' रागादिजेतारः, अस्तीति विभक्तिप्रतिरूपको निपातः, ततश्च विद्यन्ते जिनाः, अस्य कर्मप्रवादपूर्वसप्तदशप्राभृतोद्भूततया वस्तुतः सुधर्मखामिनैव जम्बुखामिनं प्रति प्रणीतत्वात् , तत्काले च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org