________________
परीषहाध्ययनम्
बृहद्वृत्तिः
उत्तराध्य. व्याख्या-सेशब्दो मागप्रसिद्धयाऽथशब्दार्थ उपन्यासे, 'नूनं' निश्चितं 'मये ति आत्मनिर्देशः 'पूर्व प्राक
|क्रियन्त इति कर्माणि तानि च मोहनीयादीन्यपि सम्भवन्त्यत आह-अज्ञानम्-अनवबोधस्तत्फलानि ज्ञानाव
रणरूपाणीत्यर्थः 'कृतानि' ज्ञाननिन्दादिभिरुपार्जितानि, यदुक्तम्-ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उप॥१२६॥ घातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ॥१॥ 'मयेत्यभिधानं च खयमकृतस्योपभोगासम्भवाद् , उक्तं च-"शुभाशु
भानि कर्माणि, खयं कुर्वन्ति देहिनः। खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥” कुत एतदित्याह-येन । हेतुना अहं 'नाभिजानामि' नाभिमुख्येनावबुद्धये पृष्टः केनचित् स्वयमजानता जानता वा 'कण्हुई'त्ति सूत्रत्वात् कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्रगुणेऽपीत्यभिप्रायः। न हि खयं खच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोप्रकाशकत्वं किन्तु ज्ञानावृतिवशत एव, उक्तं हि-"तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य । तत्पञ्चविधं ज्ञानमावृतं रविरिव में घैस्तथा ॥१॥” अथवा 'से नूणं'ति सेशब्दः प्रतिवचनवाचिनोऽथशब्दस्यार्थे, स हि केनकि|ञ्चित्पर्यनुयुक्तः तथाविधविमर्शाभावेन खयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मदानव प्रति वक्ति, 'से' इत्यथ 'नून' निश्चितमेतत् , शेष प्राग्वत । आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदि
तानि ?, उच्यते, अथेति वक्तव्यान्तरोपन्यासे 'पश्चाद' अवाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते काण्यज्ञानफलानि । कृतानि, अलर्कमूषिकविषविकारवत् तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात् , ततस्तद्विघातायैव यत्नो विधेयो
CASHANCHACKERA-4-24
॥१२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org