________________
ताहे तुमं रायं हत्थेण गहेऊण अवसारिजासि जहा-पासाओ पडति, ताहेऽहं पासायं विजाए पाडिस्सं, तेण तहा कयं, सेटिणा राया भणितो-एएण तुब्भे मारिया आसि, रुटेण रण्णा पुरोहितो सावगस्स अप्पितो, तेण तस्स इंदकीले पादो कतो, पच्छा छिन्न(नो),एवं काउं ईयरो विसजितो। तेण णाहियासितो सक्कारपुरकारपरीसहो इति॥ यथा तेन श्राद्धनासौ न सोढो न तथा विधेयं, किन्तु साधुवत्सोढव्यः, इह पूर्वत्र च श्रावकपरीषहाभिधानमाधनयचतुष्टय मतेनेति भावनीयम् , उक्तं हि प्राक्-"तिण्हंपि णेगमनतो परीसहो जाव उज्जसुत्तातो"त्ति, अङ्गं चात्र पादो, विद्या च प्रासादपातनविद्या ॥ साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणापगमात् प्रज्ञाया उत्कर्षे अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीषहमाह___ से नूणं मए पुत्वं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्टो केणइ कण्हुई ॥४०॥ अह पच्छा उइज्जति, कम्माऽणाणफलाकडा। एवमासासि अप्पाणं, णच्चा कम्मविवागयं ॥४१॥ (सूत्रम्)
१ तदा त्वं राजानं हस्तेन गृहीत्वाऽपसारयेः यथा-प्रासादः पतति, तदाऽहं प्रासादं विद्यया पातयिष्यामि, तेन तथा कृतं, श्रेष्ठिना राजा भणित:-एतेन यूयं मारिता अभविष्यन् , रुष्टेन राज्ञा पुरोहितः श्रावकायार्पितः, तेन तस्येन्द्रकीले पादः कृतः, पश्चात् छिन्नः, एवं कृत्वेतरो विसृष्टः । तेन नाध्यासितः सत्कारपुरस्कारपरीषद् इति। २ लोट्टमओ काऊण सो छिन्नो प्र. अधिकम् । ३ त्रयाणामपि नैगमनयः परीषहो यावजुसूत्रात् ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org