SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ X REAL न तु विषादः, 'एवम्' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु, कम् ?-आत्मानं, मा वैक्लव्यं कृथा इत्यर्थः, उक्तमेव हेतुं निगमयन्नाह-ज्ञात्वा कर्मविपाकं, कर्मणां कुत्सितविपाकम् । इत्थं प्रज्ञाऽपकर्षमाश्रित्य सूत्रद्वयं व्याख्यातम् , एतदेव तदुत्कर्षपक्ष एवं व्याख्यायते-प्रज्ञोत्कर्षवतैवं परिभावनीयं-'से' इत्युपन्यासे नूनं मया पूर्व 'कर्माणि' अनुष्ठानानि ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि कृतानि येनाहं ना अंपिशब्दस्य लुप्तनिर्दिष्टत्वान्नाऽपि-पुरुपोऽप्यभिजानामि 'पृष्टः' पर्यनुयुक्तः 'केनापि' अविवक्षितविशेषेण, सर्वेणापीत्यर्थः, 'कस्मिंश्चिद्'यत्र तत्रापि वस्तुनि, 'अथे'त्युत्कर्षानन्तरम् 'अपत्थ'त्ति अपथ्यानि आयतिकटुकानि कर्माण्यज्ञानफलानि 'उदिजंति'त्ति सूत्रत्वात्तिव्यत्ययेनोदेष्यन्ति, वर्तमानसामीप्ये वर्तमानवद्वा(पा०३-३-१३१ )इत्यनेन वर्तमानसामीप्ये वा लटि उदीयन्ते, सन्निहितकाल एवोदेष्यन्तीत्यर्थः, अयं चाशयः-उत्सेको हि ज्ञानावरणकारणमवश्यवेद्यं च तत् , तदुदये च कुतो ज्ञानम् ?, अनियते वाऽस्मिन्क उत्सेकः ?, इत्येवमालोचयन्नाश्वासय-प्रज्ञावलेपावलुप्तचेतनमात्मानं खस्थीकुरु ज्ञात्वा कर्मविपाकम् , इह च तत्रन्यायेन युगपदर्थद्वयसम्भवः, तत्रं च दैर्घ्यप्रसारिताः तन्तवः, ततो यथा तदेक|मनेकस्य तिरश्चीनस्य तन्तोः सङ्घाहि तथा यदेकेनानेकार्थस्याभिधानं स तत्रन्याय इति सूत्रद्वयार्थः ॥४०-४१ ॥ अत्र सूत्रद्वारं, सूत्रं चागमः, अस्मिंश्च प्रस्तुतसूत्रसूचितमुदाहरणमाहउज्जेणी कालखमणा सागरखमणा सुवण्णभूमीए । इंदो आउयसेसं पुच्छइ सादिवकरणं च ॥१२०॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy