SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ म्मणं ण य विणासो। आहेयगयवसेण उ करणविणासोवयारोऽत्थ ॥१॥ णावाए उवकमणं हलकुलियाईहि वावि खेत्तस्स । संमजभूमिकम्मे य पंथतलागाइयाणं च ॥२॥" कालो वर्तनादिरूपत्वेन द्रव्यपर्यायात्मक एव, द्रव्यपर्यायौ च नरसिंहवदन्योऽन्यसंवलितो, ततस्तद्वारेण तस्य गुणविशेषाऽऽधानविनाशावुपक्रमशब्दवाच्यौ, आह च-"जं वर्तणादिरूवो कालो दवाण चेव पजाओ। तो तकरणविणासे कीरइ कालोवयारो उ ॥१॥" आह-मनुष्यक्षेत्रे सूर्य क्रियाव्यङ्गयो वर्तनादिद्रव्यपरिणतिनिरपेक्षोऽद्धाकालाख्यः कालोऽस्ति, यथोक्तम्-"सूरकिरियाविसिट्ठो गोदोहादिकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयक्खेत्तंमि समयाई ॥१॥" ति, तत्र का वार्ता?, उच्यते, तस्यापि शङ्कच्छायादिना यथावत्परिज्ञानत ऋक्षादिचारैरतिपाततश्चामूर्तत्वेऽपि परिकर्म-13 विनाशसम्भवादुपक्रमः, तथा च पूज्याः-"छायाइ नालियाइ व परिकम्मं से जहत्थविन्नाणं । रिक्खाईचारेहि य तस्स विणासो विवजासो ॥१॥" भावोपक्रमस्तु यद्यपि भावस्य पर्यायत्वात् तस्य च द्रव्यात् कथञ्चिदनन्यत्वात्तदुपक्रमाभिधानत उक्त एव, तथापि जीवद्रव्यपर्यायोऽभिप्रायाख्यो भावशब्दाभिधेयोऽस्ति, यदुक्तम्-"भावा १ वर्तमाना० प्र. २ यद्वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः । ततस्तत्करणविनाशयोः क्रियते कालोपचारोऽत्र ॥२ सूरक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः । अद्धाकालो भण्यते समयक्षेत्रे समयादिः॥ १ ॥ ३ छायया नालिकया वा परिकर्म तस्य यथार्थविज्ञानम् । ४ ऋक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥१॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy