________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
॥११॥
उक्तं च भाष्यकारेण-"णामाई छब्भेओ उवक्कमो दबओ सचित्ताई। तिविहो दुविहो य पुणो परिक्कमे वत्थुनासे य ॥१॥" तत्र परिकर्मणि सचित्तद्रव्योपक्रमोऽवस्थितस्यैव द्विपदचतुष्पदापदरूपस्य नरतुरगतरुप्रभृतिसचित्तवस्तुनोऽविवक्षिताचित्तकेशाद्यवयवस्य यथाक्रमं रसायनशिक्षायुर्वेदादिवशतः तथाविधकर्मोदयादेः कालान्तरभाविनो| वयःस्थैर्यविनयनप्रसूनोद्मादिपरिणतिविशेषस्यापादनम् , अचित्तद्रव्योपक्रमः कनकादेः कटककुण्डलादिक्रिया, मिश्रद्रव्योपक्रमः सचित्तस्यैव द्विपदादेः अचित्तकेशादिसहितस्य स्नानादिसंस्कारकरणम् , एवं विनाशेऽपि द्रव्योपक्रमस्त्रिधा-तत्र सचित्तद्रव्योपक्रमोऽवस्थितस्यैव सचित्तद्रव्यस्याविवक्षितपर्यायान्तरोत्पत्ति प्रत्यभिज्ञानिवर्तकमसिपरश्वादितः प्राक्तनपर्यायापनयनम् , अचित्तद्रव्योपक्रम एवमेवाचित्तस्य रजतादेः पारदादिसम्पर्कतः खरूपादिभ्रंशनं, मिश्रद्रव्योपक्रमोऽपि तथैव शङ्खशृङ्खलाबलङ्कृतद्विरदादेः सचेतनस्य मुद्रादिभिरभिघातः। एवं क्षेत्राद्युपक्रमा अपि परिकर्मविनाशभेदतो विभेदाः, तत्र यद्यपि क्षेत्रं नित्यममूर्त च, ततो न तस्य परिकर्मविनाशौ स्तस्तथापि तदाधेयस्य जलादे वादिहेतुतस्तौ सम्भवत इत्युपचारतस्तदुपक्रमः, उक्तं च-"खित्तमरूवं णिचं ण तस्स परिक
१ नामादिः षड्भेद उपक्रमो द्रव्यतः सचित्तादिः । त्रिविधो द्विविधश्च पुनः परिकर्मणि वस्तुनाशे च ॥१॥ २ क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः । आधेयगतवशेनैव करणविनाशोपचारोऽत्र ॥१॥ नावोपक्रमणं हलकुलिकादिभिर्वाऽपि क्षेत्रस्य । संमार्जनभूमिकर्म च पथितटाकादीनां च ॥ २॥
॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org