________________
बाधया तदनुगुणं गमनं-संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमो, नयनम्-अनन्तधर्मात्मकस्य वस्तुनो निय६ तकधर्मावलम्बेन प्रतीतौ प्रापणं नयः । क्रमप्रयोजनं च-नानुपूर्व्यादिभिासदेशमनानीतं शास्त्रं निक्षेप्तुं शक्यं,
न चौघनिष्पन्नादिभिर्निक्षेपैरनिक्षिप्तमनुगन्तुं, नापि सूत्राद्यनुगमेनाननुगतं नयैर्विचारयितुमित्ययमेवैषां क्रमः, तथा च पूज्याः-"दारेकमोऽयमेव उ निक्खिप्पइ जेण णासमीवत्थं । अणुगम्मइ णाणत्थं णाणुगमो णयमयविहूणो ॥१॥" अत्र सङ्ग्रहश्लोकाः-'उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् । द्वाराण्येतानि भिद्यन्ते, द्वेधा त्रेधा द्विधा द्विधा ॥१॥ उपक्रम उपक्रान्तिर्दूरस्थनिकटक्रिया। निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः॥२॥ सूत्रस्यानुगतिश्चित्राऽनुगमो नयनं नयः । अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः ॥३॥ न्यासदेशागतं शास्त्रं, न्यस्यते न्यस्तमेव तत् । अन्वीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः ॥४॥' इत्थं विनयस्मरणार्थ भेदनिरुक्तिक्रम
प्रयोजनभाजि द्वाराणि वर्णितानि, तद्वर्णनाच फलादीनि वाच्यानीति प्रतिज्ञातं निर्वाहितम् । सम्प्रत्येभिरित्थं है प्ररूपितैरेषामेव भेदप्रपञ्चनपुरस्सरं प्रक्रान्ताध्ययनं विचार्यते, तत्रोपक्रमो द्विधा--लौकिको लोकोत्तरश्च, तत्राद्यो
नामस्थापनाद्रव्यक्षेत्रकालभावभेदतः पोढा, तत्र च नामतश्चिरतरकालभाविनः सन्निहितकाल एव करणं नामोपक्रमः, एवं स्थापनोपक्रमोऽपि, द्रव्योपक्रमः सचित्ताचित्तमिश्रभेदात् त्रिविधः, प्रत्येकोऽपि परिकर्मनाशभेदतो द्विविधः, १ द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थम् । अनुगम्यते नान्यस्तं नानुगमो नयमतविहीनः ।।१।। २ सोऽप्येकैकः परिकर्मविना प्र.
Jain Education Intematon
For Personal & Private Use Only
www.jainelibrary.org