________________
उत्तराध्य.
अध्ययनम्
बृहद्वत्तिः
॥१२॥
ECRECAREERRCASEARCANCES
भिख्याः पञ्च खरूपसत्तात्मयोन्यभिप्रायाः" इति, ततस्तस्य परचित्तवर्तिनः संवेदनाविषयतया विप्रकर्षवत इङ्गिता- कारादिना परिज्ञानतः सन्निहितकरणं ज्ञातस्य वा तथाऽननुगुणानुगुणचित्रचेष्टातः कुपितप्रसन्नतापादनं भावोपक्रम एव, स चावश्यमिहाभिधेयः, तदन्तर्गतत्वात् गुरुभावोपक्रमस्य, तस्य च सकलानुयोगप्रथमानत्वात्, उक्तं च-"भण्णइ वक्खाणंगं गुरुचित्तोवक्कमो पढम" ति, शेषोपक्रमाणामपि चैतदङ्गत्वात् , तथा चाह-"जुत्तं गुरुमयगहणं को सेसोवक्कमोवयारोऽत्थ ? । गुरुचित्तपसायत्थं तेऽवि जहाजोगमाजोजा ॥१॥ परिकम्मणासणाओ देसे काले य जे जहा जोगा। तो ते दवाईणं कज्जाऽऽहाराइकजेसुं॥२॥" तत एतदभिधानाय द्रव्योपक्रमाद्भावोपक्रमः पृथगुच्यते, स च द्विविधः-प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो ब्राह्मणीगणिकाऽमात्यदृष्टान्ततोऽवसेयः, प्रशस्तश्च शिष्यस्य श्रुतादिहेतोगुरुभावोन्नयनं, यत आह-"सीसो गुरुणो भावं जमुवक्कमए सुहं पसत्थमणो । सहियत्थं स पसत्थो इह भावोवक्कमोऽहिगतो ॥१॥” इत्युक्तो लौकिक उपक्रमः, शास्त्रीयस्त्वानुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारात्मकः, तत्रानुपूर्वी नामादिदशप्रकारा अन्यत्र प्रपञ्चत उक्ता, इह पुनरुत्कीर्तनगण-I
८-RAK
१ भण्यते व्याख्यानाङ्ग गुरुचित्तोपक्रमः प्रथमम् । २ युक्तं गुरुमतग्रहणं कः शेषोपक्रमोपचारोऽत्र । गुरुचित्तप्रसादाथै तेऽपि यथायोगमायोज्याः॥१॥ परिकर्मनाशनाभ्यां देशे काले च ये यथा योग्याः । ततस्ते द्रव्यादीनां कार्या आहारादिकार्येषु ॥ २॥ ३ शिष्यो गुरोभर्भावं यदुपक्रमते शुभं प्रशस्तमनाः । स्वहितार्थ स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥१॥
For Personal & Private Use Only
wwww.jainelibrary.org
Jan Education International