________________
G
RA
-
ARCASRECICROCENCY
स्फोटपृष्ठग्रहाद्यनुभवरूपया दुःखेनातः-पीडितः क्रियते स्म दुःखार्तितः, एवंविधोऽपि 'अदीनः' अविक्लवः 'स्थापयेत्' दुःखार्तितत्वेन चलन्ती स्थिरीकुर्यात् 'प्रज्ञा' खकर्मफलमेवैतदिति तत्त्वधियं, 'स्पृष्ट' इत्यपेलुप्तनिर्दिष्टत्वात् व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टोव्याधिभिरविक्लवतया 'तत्रेति' प्रज्ञास्थापने सति रोगोत्पाते वा अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजनितदुःखमिति सूत्रार्थः॥३२॥ स्यादेतत्-चिकित्सया किं न तदपनोदः क्रियते ? इत्याहतेगिच्छं नाभिनंदिजा, संचिक्खऽत्तगवेसए। एयं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥(सूत्रम्) ___ व्याख्या-'चिकित्सा' रोगप्रतिकाररूपां 'नाभिनन्देत्' नानुमन्येत, अनुमतिनिषेधाच दूरापास्ते करणकारणे, |'समीक्ष्य' खकर्मफलमेवैतत् भुज्यत इति पर्यालोच्य, यद्वा 'संचिक्ख'त्ति 'अचां सन्धि लोपौ बहुलमि'त्येकारलोपे
संचिक्खे' समाधिना तिष्ठेतू, न कूजनकर्करायतादि कुर्यात्, आत्मानं-चारित्रात्मानं गवेषयति-मार्गयति कथमयं मम स्यादित्यात्मगवेषकः, किमित्येवमत आह–'एतद्' अनन्तरमभिधास्यमानं 'खुत्ति खलु, स च यस्मादर्थः, ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्न कुर्यान्न कारयेत् , उपलक्षणत्वान्नानुमन्येत, प्रक्रमात् चिकित्सां, जिनकल्पिकाद्यपेक्षं चैतत् , स्थविरकल्पापेक्षया तु 'जं न कुज्जा' इत्यादौ सावधमिति गम्यते, अयमत्र
-
र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org