SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१०९॥ सुज्यन्ते-तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना क्रियन्त इत्युपसर्गाः ते 'अभिधारयेयुः' अन्तर्भावितेवार्थत्वादभिधार-2 परीपहायेयुरिव, कोऽर्थः ?-उत्कटतयाऽत्यन्तोत्सितरिपुवत् अभिमुखीकुर्युरिव, यथैते सजा वयं तत् प्रगुणीभूयाभिमुखैः ध्ययनम् स्थेयमिति, यद्वा सोपस्कारत्वात् सूत्राणामुपसर्गाः सम्भवेयुः ततस्तानभिधारयेत्-किमेते ममाचलितचेतसः कर्तुमलमिति चिन्तयेत् , पठ्यते च-'उवसग्गभयं भवे' इति सुगम, 'शङ्काभीत इति' तत्कृतापकारशङ्कातो भीतःत्रस्तो 'न गच्छेत्' न यायादुत्थाय, कोऽर्थः ?-तत् स्थानमपहाय अन्यदपरं आस्यते अस्मिन्निति आसन-स्थानमिति सूत्रार्थः ॥ २१॥ अग्निद्वारमधुना, तत्र च 'शङ्काभीतो न गच्छेज'त्ति सूत्रावयवमर्थतः स्पृशन् उदाहरणमाहनिक्खंतो गयउराओ कुरुदत्तसुओ गओ य साकेयं । पडिमाट्रियस्स कुडिया आगया अग्गि जालिंति १०७ a! व्याख्या-'निष्क्रान्तः' प्रबजितो गजपुरात् कुरुदत्तसुतो गतश्च साकेतं प्रतिमास्थितस्य 'कुडिय' त्ति हृतगवेषका । (आगता) अग्निं शिरसि ज्यालयन्ति इति गाथाक्षरार्थः ॥ १०७ ॥ भावार्थस्तु बृद्धसम्प्रदायादवसेयः, स चायम्-1 । हथिणाउरे णयरे कुरुदत्तसुत्तो णाम इन्भपुत्तो तहारूवाणं थेराणमंतिए पचतितो, सो कयाइ एगल्लविहारप ॥१०९॥ डिमं पडिवण्णो, साएयस्स णयरस्स अदूरसामंते चरिमा ओगाढा, तत्थेव पडिमं ठिओ चचरे, तओ एगातो १ हस्तिनापुरे नगरे कुरुदत्तसुतो नामेभ्यपुत्रस्तथारूपाणां स्थविराणामन्तिके प्रबजितः, स कदाचित् एकाकिविहारप्रतिमां प्रतिपन्नः, साकेतस्य नगरस्यादूरसमीपे चरमा (पौरुषी) अवगाढा, तत्रैव प्रतिमा स्थितश्चत्वरे, तत एकस्मात् Jain Education International www.jainelibrary.org For Personal & Private Use Only
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy