SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 'उगवादिभ्यो यदि'त्यत्र (पा०५-१-२) 'शुनः संप्रसारणं वा दीर्घत्वमिति (वार्तिकं ५-१-२) वचनतो यति संप्रसारणे दीर्घत्वे च शून्यम्-उद्वसं तच्च तत् अगारं च शून्यागारं तस्मिन्वा, वृश्यत इति. वृक्षः तस्य मूलं-अधोभूभागो वृक्षमूलं तस्मिन्वा, 'एकः' उक्तरूपः स एवैककः, एको वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः, एकं वा कर्मसाहित्य|विगमतो मोक्षं गच्छति-तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकगः, 'अकुक्कुचः' अशिष्टचेष्टारहितो 'निषीदेत्' तिष्ठेत् , 'न च' नैव वित्रासयेत् 'परम्' अन्यं, किमुक्तं भवति ?-'पंडिम पडिवजिया मसाणे, णो भायए भयभेरवाई दिस्स । विविहगुणतवोरए य णिचं, ण सरीरं चाभिकंखए सभिक्खू ॥१॥ इत्यागममनुस्मरन् श्मशानादावप्येककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं संविभीयात् , न च विकृतखरमुखविकारादिभिरन्येषां भयमुत्पादयेत् , यद्वा 'अकुकुए' त्ति अकुत्कुचः कुन्थ्वादिविराधनाभयात्कर्मबन्धहेतुत्वेन कुत्सितं हस्तपादादिभिरस्पन्दमानो निषीदेत्, न च |'वित्रासयेत्' विक्षोभयेत् 'परम् ' उन्दूरादि, मा भूदसंयम इति सूत्रार्थः ॥ २०॥ तत्र च तिष्ठतः कदाचिदुपसगर्गोत्पत्तौ यत् कृत्यं तदाहतत्थ से चिट्ठमाणस्स, उवसग्गेऽभिधारए । संकाभीओन गच्छेज अण्णमासणं ॥२१॥(सूत्रम्) __ व्याख्या-तत्र' इति श्मशानादौ 'से' तस्य तिष्ठतः, पठ्यते च-'अच्छमाणस्स' त्ति आसीनस्य उप-सामीप्येन । १ प्रतिमा प्रतिपद्य श्मशाने न बिभेति भयभैरवाणि दृष्ट्वा । विविधगुणतपोरतश्च नित्यं न शरीरं चाभिकाङ्क्ते स भिक्षुः ॥ १ ॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy