SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् बृहद्धृत्तिः उत्तराध्य. लाढः, प्रशंसाभिधायि वा देशीपदमेतत् , पठ्यते च-'एग एगे चरे लाढं' ति, तत्र चैकः-असहायःप्रतिमाप्रतिपन्नादिः स चैको रागादिवैकल्याद्' 'अभिभूय' निर्जित्य 'परीपहान्' क्षुदादीन् , क पुनश्चरेदित्याह-'ग्राम' चोक्तरूपे 'नगरे वा' किरविरहितसन्निवेशे 'अपिः' पूरणे 'निगमे वा' वणिग्निवासे 'राजधान्यां' वा प्रसिद्धायाम् , उभयत्र वाशब्दानुवृत्तेः, ॥१०७॥ मडम्बाद्युपलक्षणं चैतद् , आग्रहाभावं चानेनाहेति सूत्रार्थः ॥ १८॥ पुनः प्रस्तुतमेवाह असमाणो चरे भिक्खू, नेव कुज्जा परिग्गहं । असंसत्तो गिहत्थेहि, अनिकेओ परिवए ॥१९॥ (सूत्रम्) ___ व्याख्या-न विद्यते समानोऽस्य गृहिण्याश्रयामूञ्छितत्वेन अन्यतीर्थिकेषु वाऽनियतविहारादिनेत्यसमानःअसदृशो, यद्वा समानः-साहङ्कारो न तथेत्यसमानः, अथवा (अ)समाणो' त्ति प्राकृतत्वादसन्निवासन् , यत्रास्ते तत्राप्यसंनिहित एवेति हृदयं, सन्निहितो हि सर्वः खाश्रयस्योदन्तमावहति अयं तु न तथेत्येवंविधः सन् 'चरेत् , अप्रतिबद्धविहारतया विहरेत् 'भिक्षुः' यतिः, कथमेतत् स्यादित्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्ध्यात्मकम् , अत्राह च-"गामे कुले वा नगरे व देसे, ममत्तभावं ण कहिंचि कुजा", इदमपि यथा स्यात्तथाह-'असंसक्तः' असम्बद्धो 'गृहस्थैः' गृहिभिः 'अनिकेतः' अविद्यमानगृहो, नैकत्र बद्धास्पदः, 'परिव्रजेत् सर्वतो विहरेत्, न (ना) नियतदेशादौ गृहिसम्पर्कः, एकत्र बद्धास्पदत्वे नियतदेशादिविहारितायां वा स्यादपि ममत्वबुद्धिः, तदभावे १ ग्रामे कुले वा नगरे वा देशे, ममत्वभावं न कुत्रचित्कुर्यात् । ॥१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy