________________
परीषहाध्ययनम्
बृहद्वृत्तिः
उत्तराध्य. वा आरामो धर्मारामस्तत्र, स्थित इति गम्यते, निर्गत आरम्भाद्-असत्क्रियाप्रवर्तनलक्षणात् निरारम्भः 'उपशान्तः'
क्रोधाद्युपशमात् 'मुनिः' सर्वविरतिप्रतिज्ञाता चरेत् , 'पंलिओवमं झिजइ सागरोवमं, किमंग पुण मज्झ इमं
मणोदुहंति विचिन्तयन्संयमाध्वनि यायात्, न पुनरुत्पन्नारतिरपि अवधावनानुप्रेक्षी भवेद् । इह च विरतादि॥ ९९ ॥ विशेषणानि अरतितिरस्करणफलतया, यद्वा यत एव विरतोऽत एवात्मरक्षित इत्यादिहेतुफलतया नेयानीति सूत्रार्थः
॥ १५॥ इदानीं तापसद्वारमनुस्मरन् 'अरई अणुप्पवेसे' इत्यादिसूत्रसूचितमुदाहरणमाह
अयलपुरे जुवराया सीसो राहस्स नगरीमुजेणिं । अज्जा राहक्खमणा पुरोहिए रायपुत्तो य ॥ ९८॥ १ कोसंबीए सिट्टी आसी नामेण तावसो तहियं । मरिऊण सूयरोरग जाओ पुत्तस्स पुत्तोत्ति ॥ ९९ ॥ | व्याख्या-अचलपुरे युवराजः शिष्यो राधस्य नगरीमुजयिनीम् आर्या राधक्षमणाः पुरोहितो राजपुत्रश्च कौशाम्ब्यां श्रेष्ठी आसीन्नाम्ना तापसः तत्र मृत्वा 'सूयरोरगो' त्ति सुपो लोपः शूकर उरगो जातः पुत्रस्य पुत्र इति गाथाद्वयाक्षरार्थः ॥९८-९९ ॥ एतदर्थस्तु सम्प्रदायादवसेयः, स चायम्१ पल्योपमं क्षीयते सागरोपमं किमङ्ग पुनर्ममेदं मनोदुःखमिति ।
KHARASHTRA
॥९९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org