________________
गामाणुगाम रीयंत, अणगारमकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥१४॥ (सूत्रम्) व्याख्या-असते बुयादीन् गुणान् इति ग्रामः स च जिगमिषितः अनुग्रामश्च-तन्मार्गानुकूलः अननुकूलगमने प्रयोजनाभावाद् ग्रामानुग्राम, यद्वा ग्रामश्च महान् अणुग्रामश्च स एव लघुग्रंमाणुग्रामम् , अथवा-ग्राममिति रूढि-3 शब्दत्वादेकस्मादामादन्यो ग्रामः ततोऽपि चान्यो ग्रामानुग्राममुच्यते, नगरोपलक्षणमेतत् , ततो नगरादींश्च, किमित्याह-रीयंत ति तिब्यत्ययाद्रीयमाणं-विहरन्तम् 'अनगारम्' उक्तस्वरूपम् 'अकिञ्चनं' नास्य किञ्चन प्रतिबन्धा|स्पदं धनकनकाद्यस्तीयकिञ्चनो-निष्परिग्रहः, तथाभूतम् 'अरतिः' उक्तरूपा 'अनुप्रविशेत्' मनसि लब्धास्पदा, भवेत्, 'त'मित्यरतिस्वरूपं 'तितिक्षेत' सहेत परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमेवाह
___ अरइं पिट्टओ किच्चा,विरओ आयरक्खिए। धम्मारामे निरारंभे,उवसंते मुणी चरे ॥१५॥ (सूत्रम्) 1 व्याख्या-'अरर्ति' संयमविषयां मोहनीयकर्मप्रकृतिरूपां पृष्ठतः कृत्वा कोऽर्थः ?-धर्मविघ्नहेतुरियमितिमत्या |
तिरस्कृत्य, किमित्याह-विरतः' हिंसादिभ्य उपरतः, आत्मा रक्षितः दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः,
आहिताम्यादिषु दर्शनात् क्तान्तस्य परनिपातः, आयो वा-ज्ञानादिलामो रक्षितोऽनेनेत्यायरक्षितः, धर्मे-श्रुतधदादौ आङित्यभिव्यात्या रमते-रतिमान् भवतीति धर्मारामः, वद्वा-धर्म एव सततमानन्दहेतुतया प्रतिपाल्यतया
MASAGACASSES
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org