________________
पकारित्वनिश्चयः, अथ परेषां कषायकारणत्वेन चारित्रवाधकत्वं चीवरस्य, तर्हि धर्मादयोऽपि कस्यचित् कषायकारणं न वा ?, न तावन्न, तेऽपि कस्यचित्कषायहेतव इति चीवरवत्तेऽपि हातव्याः, आह च-"अत्थि य किं किंचि
जए जस्स व कस्स व कसायबीजं तं । वत्थु ण होज? एवं धम्मोऽवि तुमे ण घेतबो॥१॥ जेण कसायणिमित्तं जिदाणोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि य पडिणीयाणं जिणमयं च ॥२॥" अथैषां मुक्त्यङ्गतया कषायहेत
त्वेऽपि न हेयता, तदिहापि समानम् , उक्तं च वाचकसिद्धसेनेन-“मोक्षाय धर्मसिद्धयर्थ, शरीरं धार्यते यथा ।। शरीरधारणार्थ च, भैक्षग्रहणमिष्यते ॥१॥ तथैवोपग्रहाय, पात्रं चीवरमिष्यते । जिनैरुपग्रहः साधोरिष्यते न परिग्रहः ॥२॥” इत्यादि । औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता, तस्य तदुपकारित्वात् , यच यत्रोपकारि न तत्तस्मिन्नुदासीनं, यथा तन्वादयः पटे, चारित्रोपकारि च चीवरं, तथाहि-संयमात्मकं चारित्रं, न च तस्य तत्परिहारेण शुद्धिरस्ति, आगमश्च-"किं सञ्जमोवयारं करेइ वत्थाइ जइ मई सुणसु । सीयत्ताणं ताणं जलणतणग
१ अस्ति च किं किञ्चित् जगति यस्य वा कस्य वा कषायबीजं तत् । वस्तु न भवेत् ? एवं धर्मोऽपि त्वया न ग्रहीतव्यः ॥ १॥ येन कषायनिमित्तं जिनोऽपि गोशालसंगमकादीनाम् । धर्मो धर्मपरा अपिच प्रत्यनीकानां जिनमतं च ॥२॥ २ किं संयमोपकारं करोति वस्त्रादि यदि मतिः शृणु । शीतत्राणं त्राणं ज्वलनतृणगतानां सत्त्वानाम् ॥१॥ तथा निशि चतुष्कालं स्वाध्यायध्यानसाधनमृषीणाम् । हिममहिकावर्षा|ऽवश्यायरजआदिरक्षानिमित्तं तु ॥ २॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org