SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. परीपहाध्ययनम् बृहद्वृत्तिः वृथैव "मणपरमोहिपुलाए आहारग खवग उवसमे कप्पे।संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ॥१॥" इत्याप्तवचनानाश्रयणं, यदि तु रथ्यापुरुषाणामपीति कल्प्यते, तिरश्चामपि तत्कल्पनाऽस्तु, अथ देशविरतिभाज एव | त इति न तेषां तत्प्रतिपत्तिः, तर्हि सर्वविरतिस्तत्कारणं, तथा च तद्वता एकेन यत्कृतं तत्किमखिलैरपि तद्वद्भिराचरणीयमथ तथाविधशक्तियुक्तरेव ?, यद्याद्यो विकल्पस्तदैकस्मिन् मासषण्मासादिकं तपश्चरत्यन्यैरपि तचरणीयं स्याद्, अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तैरेव प्रतिपत्तव्यः, अथ तथाविधशक्तिविकलानां तत्तपश्चरतां बहुतरदोषसम्भव इति न तचरणं, तदिहापि तुल्यं, तथाहि-सम्भवत्येवेदानीन्तनयतीनां तथाविधशक्तिसंहननविकलतया हिमकणानुषक्तशीतादिषु बहुतरदोषहेतुकमण्यारम्भादिकं तथा तथाविधाच्छादनाभावतः शीतादिखेदितानां शुभध्यानाभावेन सम्यक्त्वादिविचलनम् , उक्तं च वाचकैः-“शीतवातातपैदशैर्मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥१॥” यच्च 'जिताचेलपरीपहो मुनि' रिति वचनतो न चीवरं धमोपकारीति, तत्र जिताचेलपरीषहत्वं चेलाभावेनैवाहोश्चिदेषणाशुद्धतत्परिभोगेनापि ?, यदि चेलाभावेनैव, ततः क्षुत्परीपहजयनमायाहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम् , एतच भवतोऽपि नाभिमतं, ततः परिशुद्धोपभोगितया जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः, स चास्मत्पथवयैवेति न कुतोऽपि चीवरस्य धर्मानु१ मनः (पर्यायः) परमावधिः पुलाक आहारकः क्षपक उपशमकः (जिन) कल्पः। संयमत्रिकं केवलित्वं सिद्धिश्च जम्बो व्युच्छिन्नाः॥१॥ ९५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy