SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अहं परिचत्तो- तुमं णं पाणियं पियाहित्ति, जदि मे तं पाणियं पियं होतं तो संसारं भमंतो, पडिगतो । एवं अहियासेयवं । इत्यवसितः पिपासापरीषहः, क्षुत्पिपासासहनकर्शितशरीरस्य च नितरां शीतकाले शीतसम्भव इति तत्परीषहमाह - चतं विश्यं हं, सीयं फुसइ एगया । नाइवेलं विहन्निज्जा, पावदिट्ठी विहन्नइ ॥ ६ ॥ (सूत्रम् ) व्याख्या - 'चरन्तम्' इति ग्रामानुग्रामं मुक्तिपथे वा त्रजन्तं धर्ममासेवमानं वा, 'विरतम्' अग्निसमारम्भादेनिवृत्तं विगतरतं वा 'हं' ति स्नानस्निग्धभोजनादिपरिहारेण रूक्ष, किमित्याह - शृणाति इति शीतं, 'स्पृशति' अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन वाध्यते, 'एकदे 'ति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा, | ततः किम् ? - 'न' नैव वेला - सीमा मर्यादा सेतुरित्यनर्थान्तरं, ततञ्चातीति शेषसमयेभ्यः (स्थविरकल्पिकापेक्षया जिन| कल्पिकापेक्षया च स्थविरकल्पाच्चातिशायिनी वेला शक्त्यपेक्षतया च सर्वथानपेक्षतया च शीतसहनलक्षणा मर्यादा तां विहन्यात् , कोऽर्थः - अपध्यानस्थानान्तरसर्पणादिभिरतिक्रामेत्, किमेवमुपदिश्यत इत्याह- पासयति पातय - ति वा भवावर्त इति पापा तादृशी दृष्टिः- बुद्धिरस्येति पापदृष्टिः 'विहन्नइ' इति सूत्रत्वाद्विहन्ति - अतिक्रामत्यतिवेला १ परित्यक्तः – त्वमिदं पानीयं पिबेति, यदि मया तत्पानीयं पीतमभविष्यत्तदा संसारमभ्रमिष्यम्, प्रतिगतः, एवमध्यासितव्यम् । २ नेदं पदत्रयं प्रत्यन्तरे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy